________________ तर्हि तादृशो महापुरुषो नाभविष्यत् / अन्यच्च यदा स्वपाटकाने नटगारुडविद्याभिज्ञाः खेलां दर्शयितुं समा गच्छन्ति जनान् तदामरचन्द्रः सवयोभिर्वालैः सह द्रष्टुमधावत् , तेऽपि नवीनवस्तुप्रदर्शनेन जनान् रंजअमृतचरि यित्वा तेषां खेलादर्शनकर्तृणां जनानामग्रे स्वोदरपूर्तये पात्रं गृहीत्वा याचन्ते स्म तदा सोऽपि मातरं गत्वा / तम् . तेभ्यो यत्किंचिदातुं प्रयततेस्मेदृशाः संस्कारास्तस्य मनसि बाल्य एवं पतिताः। अनया रीत्या प्रतिदिनं धर्मपरिणतचित्त इन्दुकलावद् वृद्धिमियाय सः इत्थं जननीजनकौ पुत्रमुखं दृष्ट्वा स्वीयान् सुखमयान दिवसान व्यतीयतुर्वालस्य संवर्धनं प्रेम्णा नित्यशश्चक्रतुश्च / इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्र देशोद्धारकपन्यासपदधारिगणिवर्य हिम्मतविमलशिप्यशान्तमूर्तिप्रवर्तकश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिर्भाधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते तृतीयं प्रकरणं समाप्तम् // सर्वजीवसंघातायुःक्षपयितरिकाले स्वकार्य कुर्वति कौमारावस्थावस्थितामरचन्द्रमध्यापयितुं श्रेष्ठयैच्छत्तदा ज्योतिर्विदं गणकमाहूय बालस्य पाठशालागमनमूहूर्त पप्रच्छ, तदा तदादिष्टकालमनुसृत्य शुभदिवस| शुभशकुनवारादि ज्ञात्वा वादित्रध्वानपूर्वकं स्वबांधवैः सह स्वयमेव श्रेष्ठी पाठशालां गत्वा बालमध्यापयितुं पडसमहरू 6.5. 11.1961.165