________________ तव्यं तेषामुपनिषदपि सम्यक्तया ज्ञातव्या, इति मत्वा शास्त्रतलस्पर्श्वभ्यासवान् समजायत / प्रत्यहं स शास्त्राभ्यासस्याग्रपथं ददौ, कथं जगति लोककल्याणायात्मनो शिवलक्ष्मीवरणाय च तेनाग्रे गंतव्यमासीत्। स मुनिः स्वाध्यायवलेन जगता निर्धारितमुच्चपदं प्राप्तः। विद्वज्जैनाचार्यनिर्मितग्रन्थानां तथा तथोत्तमपुस्तकानां परिचयोऽवश्यं कर्तव्य इति महाराजामृतविमलस्य मुनेः प्रशंसनीया पद्धतिरभवत् / एवं दीक्षाग्रहणानन्तरं तत्र श्रीनगर एव वर्षत्रयं समतीतम् , तदा तस्य विचारशैली पूर्णतां प्राप्ता स्वाध्यायोऽपि प्रबलो जातस्तस्य ज्ञानदृष्टिरपि शास्त्रार्णवागाधतलस्पर्शतां प्राप, तर्कशक्ती सत्यशोधनसमालोचनाप्यपूर्वासीत् / अस्मिञ् जगति साधनसंपन्ना जना यात्साहवन्तः स्युस्तर्हि किं किं न कुर्वन्ति ? जनोऽयं / जगति पांच तिककार्येषु चान्तरिकमनोविज्ञानशक्तिषु यादृग् विवर्धिषावाञ् जायते तादृशः संवर्धते निःसंशयम् / तस्यैवामृतविमलस्य मुनेः स्वाध्यायो यथा यथा समवर्धत तथा तथा तस्य कीर्तिरपि सर्व जनपदे विस्तृतासीत् / यत्र यत्र जनवजैः प्रार्थितश्चतुर्मासी न्यवसत् तत्र तत्र तस्य विद्वत्ता यौवनतां प्राप / | श्राविकाधावकवृन्दस्तस्य वचनमाधुर्यमयी व्याख्यां श्रुत्वा स्वजन्मावन्ध्यतां मत्वा स्वात्मानं च धन्यं मेने॥ हाहाहाहाहाहाहा.प.कहरू प्रमाण