________________ बोधोऽदायि तत्तु प्रकरणेनानेनानुमीयते पातशाहेरककवरस्य पश्चात्तस्य प्रपौत्रशाहजानेति नीतिशाली राज्य पडंगज्ञानवान् स्वजातीयजनेषु चेतरेष्वार्यजनेषु पक्षपातरहितया बुद्धयाऽवर्तत / यद्राज्ये स्वधर्मपालने : सर्वा अपि प्रजाः स्वतंत्रा अभूवन // केषांचिदपि स्वस्वधर्मपालने कोप्युपरोधो नासीत् / ते राजानोऽपि धर्मतत्त्वमवगाहमानाः स्वस्वधर्मावलंविनामार्यविदुपां वातं समाहृय स्वसदसि वादं विधाप्यार्यधर्म प्रति दर्शितादरा अजनिपत / पितर्युपरते यदा शाहजानो राज्यधुरामुवाह तदानीमपि यवनपातशाहीनां विभूतिवर्णनीया | बभूव / येषां विभवानां समालोकनेच्छया चीनजापानजर्मनांगलदेशीयाःसर्वा अपि प्रजाः स्वबुद्धिनिर्मिताग्निरथानलनौकादिसाधनान्यवलंव्य देवा विमानानीव समागच्छन्ति प्रतिसंवत्सरमायभूमाविन्द्रप्रस्थनगरम् / यत्र शाहजानपातशाहिः स्वप्राणप्रियाया मुमताजनामकमहिष्याः कवरोपरि नवकोटिधनव्ययेन विभवानां साक्षात् प्रतिविम्वमिव ताजमहालनामकं प्रासादमचीकरच्छिल्पिभिः, यस्य शोभां दर्शदर्श जनाः कौतुकिनो भवन्ति। एतादृशः प्रासाद आर्यभूमावन्यत्र कुत्रापि नास्ति, अस्यामायभूमाविदमेवावलोकनीयमस्त्यन्यजनपदापेक्षयेति सर्वैरपि जनैर्मन्यते / तत्स्थानापेक्षपासाधारणानि यवनधर्मस्थानान चान्यधर्मस्थानान्यपि जनाश्चर्यकराणि भवन्ति, यैःस्थान प्राचीनवैभव आर्यभूमौ कीदृशोऽभूदित्यनया कार्यनिर्मित्यानुमीयते जनैः।