________________ प्रवर्तनशीला अपि संबभूवुः। केचन तस्य साधून प्रति भक्तिं विलोक्य धन्योऽयं वणिगिति स्वचेतसि मेनिरे नागराः॥ इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्रदेशोद्धारकपन्यासपदधारिगणिवर्यहिम्मतविमलशिष्यशान्तमूर्तिप्रवर्तकश्रीशान्तिविमलविरचिते श्री विमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते | द्वितीयं प्रकरणं समाप्तम् // ___भाविविज्ञानपात्रस्यामरचन्द्रस्य जनुर्यदा वसुनवनिध्यंकवर्षे जातं तदेन्द्रप्रस्थस्य व्यवहारिषु श्रेष्ठिजनेषु वीरसेनश्रेष्ठिनो नामधेयमग्रगण्यमभूत् // आर्हतमतप्रतिपादितधर्ममार्तडप्रकाशेन तस्य कुटुंबकमलोद्यानं विकसिततामाप्तबञ्च / अमरचन्द्रस्य शैशवावस्थापि तस्मिन्नेव समये समारब्धा। वाल्य एवामरचन्द्रः प्रतिभावान प्रभावशील उत्साहवान ओजस्वीत्यादिगुणालंकृत एव संजातस्तीवजिज्ञासावांश्च / तस्मिन्नमरचन्द्रे शिशुसाहजिका वाल्याग्रहोऽप्यासीत् / सवयोभी रथ्यामाणवकैः सत्रा तेषां क्रीडनकेषु विविधां क्रीडां वितेने। | यस्मिन् दिवसे स्वजिज्ञासापूर्तये धनव्ययेन प्रभूतानि क्रीडनकानि क्रीणित्या किंचित्काल देवित्वा तस्मिन्ने विदिने भक्त्या निरस्तवान्। स कस्यचित् क्रीडनकस्योपरितनां शोभां कस्यचित् क्रीडनकस्याकारस्य रमणी