SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अमृत श्चिदपि स्थानेऽनाकलितं न भवतीति / भवादृशाः समताजुषो जना आत्मसंस्मरणलीना भवन्ति, परं चात्र - सहस्थितत्वेन भवतां स्वभावो मया पर्यालोचितस्तेन मम तुभ्यं गणिपददित्सा संजायतेऽतोऽस्य ग्रामस्य चरि जनसंमति गृहीत्वा तुभ्यं गणिपदं दास्य इति मेऽभिप्रायोऽस्ति / एवं परस्परं वार्तयित्वा घाणेरावसंघतम् समस्तं समाहूय तमपृच्छत्-अद्य भवतां गृहांगणे महापंडित आगमवेत्ता पंचमहाव्रतधारी भवतः सर्वान् पावयितुमागतोऽस्ति, तस्य वैदुष्यं तादृशांश्च गुणान् समवलोक्याहं परितुष्टो मम तस्य गणिपददित्सा वर्तते, भवतां कीदृशी रुचिरस्तीति मह्यं विज्ञापयन्तु / तदा संघसमस्तजनैरुदीरितं यथा तत्रभवतामिच्छा तथा कर्तुं वयं सर्वे तत्पराः स्मः / अस्माकं गृहांगण आगत एतादृशः समयो वन्ध्यो माभूत् / अतो यथा भवता माज्ञा तथा यतिष्यामहे / तस्य ग्रामस्य संघसमस्तस्यामृतकल्पानि वचांसि श्रुत्वा पन्यासः संजहर्ष, सद्य र एव संघजनानष्टाहिकमहं कर्तुमादिदेश / महाराजस्याज्ञां प्राप्य तत्र जनैरुत्सवः समारेभे, तन्निर्मित आनन्दः सर्वत्र ग्रामे प्रतिगृहं प्रससार, अमृतविमलस्य गणिपदमहोत्सवे श्रीनगरात् संघवीत्युपाधिधारी श्रेष्ठिशृङ्खलच न्द्रस्तथा जोइतारामनामा श्रेष्ठी तथान्ये च संघजनाअपि सूर्यमलश्रेष्ठयादयोऽप्यामंत्रिता गृहस्थाः समागच्छन् / Ka घाणेरावपुरम् / एवं सकलसंघजनसमक्षं शुभ मुहूर्ते मुनिराजामृतविमलाय गणिपदवी प्रदा तदा तत्र 661 फफफफEN
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy