SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ सहसपहर वकाःस्वद्वादशवतपालने दृढवता बभूवुः / प्रत्याख्यानसामायकादिधर्मकार्येषु प्रेम्णा संयुयुजुः। इत्येवं तेषां मनसि धर्मबीजानि रोपयन मुनिः सर्वत्र विजहार / सर्वजनीनहितसमावेश आत्मनीनहितं समाविशतीति मत्वा सर्वजनकल्याणप्रवर्तन एव स्वमनीपोपयोग ददौ मुनिवर्यः / महाराजामृतविमलगुरोः परिचयवन्तो जना जातुचिदपि तं न विस्मरन्ति / तस्य स्वभावसौष्ठवतया संमीलनस्वभावतया च जनास्तस्मिन् स्नियन्ति स्मेत्थमनेकग्रामेषु विहरन गुरुरमृतविमलोऽनेकतीर्थदेवालयादिभिः पवित्रितं मरुभूमिस्थितं घाणेरावग्रामं प्राप्तवान् / तत्समये तस्मिन् ग्रामे पन्यासपदधारी साधुशुद्धव्रतपालनतत्परो गणिवयों देशनादानजनानां जननमरणक्लेशं वारयन् हेतविजयमुनिविरराज / तं समागतं विज्ञाय गणिवों बहुशस्तुतोष, सानन्दं स्वसन्निधौ चतुर्मासी कर्तुमाग्रहं च कृतवान् , तस्य तदाग्रहं विज्ञाय मुनिवर्योऽप्येतादृशमहापुरुषपरिचये लाभः संजायते प्रेमाविर्भावोऽपि परस्परं संजायत इति विचार्य तेन गणिवर्येण सह तत्रैव चतु. मासों विधातुं निश्चिकाय / तत्रान्योन्यपरिचयेन पन्यासपदवीधारी हेतविमलगणिवाँऽपि चामृतविमलमुनेविवेकनम्रतासहिष्णुतादिगुणवर्गेण गुणगृह्यत्वं चावलोक्य सोऽतीव तुतोष तस्मिन् मुनी, तस्य योगोदहनादिधर्मकार्याणि कारयित्वा सूचितवानेव गणिवों गुणिजनानां गुणप्रसुनसौरभ्यमत्र जगति कस्मि
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy