________________ | समजायत / संसारतापोपशमनी गुरुच्छत्रच्छायामाश्रित्य द्वयोर्मुनिराजयोर्जीवनदशा क्याप्यवर्णनीया मंबभूव. पन्यासपदधारी दयाविमलगणिवाऽपि योग्यशिष्यतासंपादनदक्षी गुरुपरिचर्याकुशलौ विद्यासंपादननिपुणो शासनप्रभावको द्वौ शिष्यो समजायेतां तेनाप्यात्मानं धन्यं मेने। अस्मिञ्जगति देवं किमातनोतीति न केनापि ज्ञायते ज्ञास्यते वा, कथमिन्द्रप्रस्थवास्तव्यस्य धनिकव्यवहारिणः पुत्रस्य चारित्रलक्ष्मीवरणं / जनहितकरणं च व लोलुपतासक्तजनैवर्णितं गार्हस्थ्यसुखं च क्य, अनयोरंतरं निर्धार्य तेन सर्वधनिकवैभवं च परित्यज्य संसारसमुद्रतारिणी नौकासमा दीक्षा यद्गृहीता सैपा न स्वल्पा वार्ता, किंत्यतिमहज्जनचरितमीहगेवास्ति / अस्मिञ्जगति दीक्षागृहीतारो जना मतिभेदेन बहवः सन्ति परममरचन्द्रवद्धनिकवैभवं . त्यक्त्वा मायां च पदाहत्य चारित्र्यलक्ष्मी वरयितारः शासने विरलाः सन्ति // इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्र देशोद्धारकपन्यामपदधारिगणिवर्यहिम्मतविमलशिष्यशान्तमूर्तिप्रवर्तकमुनिश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्व चन्दनीयगणिवर्यामृतविमलचरिते षष्ठं प्रकरणं समाप्तम् //