________________ | प्राप, धारासंपातलक्षणानि सर्वाण्यपि युगपत् संजातानि, विविधनादवती मेघगर्जनाप्यभूत् / तादृशी स्थिति विलोक्य जना भयनांतचित्ता अभवन् / तदानृतविमलगणिवों मेघगंभीरया वाचा जनान सान्वयन्नुवाच “भो जनाः ! चित्तभ्रान्ततां परित्यज्य भगवतस्तीर्थकरदेवस्य वरयात्रां निर्भयाः प्रसारयन्तु भवंतः / एषा वरयात्रा सर्वनगरं भ्रमित्या स्वस्थानं नागमिष्यति तावन्मेघस्य पृषतोऽपि न पतिष्यति', गुरोरेतादृशानि प्रतापजनकानि वचांसि श्रुत्वा कतिपयानां जनानां मनःसु श्रद्धा पदं न दधी, भविष्यद्धारासंपातानां सर्वाणि चिन्हानि खगतानि स्पष्टतया लुलोकिरे, विद्युल्लतापि श्यामलितमाकाशं दीप्तिमचके, भयोत्पादका घनस्वना अपि समजायन्त / एवगंबुदपातसमयेऽभ्यणे समागतेऽपि केचन गुरुवचनभाविकश्रावकास्तस्मिन् श्रद्धामभिसंधाय वरयात्रार्थ विचित्रवादित्रनादपूर्वकं निर्जग्मुरुपाश्रयात् / राजनगरस्य सर्वा अपि मुख्याः प्रतोलीवरयात्रां भ्रामयित्वा पुनः प्रत्यावर्तन्त जनास्तावद्गुरुवचनादेव मेघस्यैकोऽपि पृषतो नापतत् / श्रावकजनताश्चर्यवती संजाता गुरोर्वचनसिद्धि प्रत्यक्षामवलोक्याधिकं श्रद्धावती समभवत् / वरयात्रासमागतजना यावत्स्त्रगृहं न प्रातास्तावन्मेघवृष्टिः समभृत् / यदा गुरुवर्यस्य चतुर्मासी उंझानाम्नि ग्राम आसीत् तदा तत्पुरनिवासिभिर्जनवजैरुपाश्रयः संकीर्णोऽभवत् , महाराजो व्याख्यानपीठमाश्रित्य