________________ तम् / कराणां गुणस्तुतिवर्णनस्तवनानि कवित्वख्यापनानि गुर्जररागनिर्मितपद्यानि बहुशचकार, जनेषु च धर्मरसमुत्यादयांचकार / अस्मादितगण्यपि धर्मकार्याणि तेनादरपूर्वकं विदधे गणिवर्येण / इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्रदे - शोद्धारकपन्यासपदधारिगणिवर्यहिम्मतविमलशिष्यशान्तमूर्तिप्रवर्तकमुनिश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधीशधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्ववन्दनी यगणिवर्यामृतविमलचरिते नवमं प्रकरणम् // विक्रमार्कसमयातीतांबुधिदिनिध्यकपरिमिते वर्षे गणिवर्यस्य चतुर्मासी पालनपुरनगरे जाता। तत्रत्यजना विमलगच्छीया बहवः सन्ति, तेषामतिप्रार्थनया मुनिस्तत्रैवोवास / तत्र मुनेश्चत्वारो मासा व्यतीतास्तनंतरं गणिवर्यस्य कीर्ति देशव्यापिनीं श्रुत्वा मरुभूमिस्थितशिरोहीग्रामवास्तव्यहुकमचन्द्रस्यात्मजन्मा नाम्ना हीरचन्द्रस्तत्रोपाश्रयमागच्छत्तत्समये व्याख्यानसमारंभः समजायत, ततो गणिवर्यो व्याख्यानपीठमारुह्य सर्वजनमनोन्धकारनिवारिणी देशनां सभासमक्षं दत्तवान् , तां देशनां श्रुत्वावसरं विलोक्य हीरचन्द्रः प्रश्नं विदधे “गुरो ! बंधमोक्षयोः किं कारणमस्ति, तद्विषयेऽहमज्ञोऽत एव भवन्तं पृच्छामि, तद्वाणीं श्रुत्वा