Book Title: Vasudevahimdi Madhyama Khanda Part 1
Author(s): Dharmdas Gani, H C Bhayani, R M Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 366
________________ Appendix - I ७१ तामार्यपुत्र मां विद्धि विदितार्था स्वविद्यया । अनुरक्तां तवानेत्रीमस्मिन्स्वे मलयाचले ॥ [ द्वितीयस्तरंगः ] ५६ ५७ ६३ ६५ ६६ ६७ तत्र प्रियायां सुप्तायां तस्यां सुप्तविनिद्रकः । नरवाहनदत्तोऽसौ स्मृत्वा कस्मात्किलाब्रवीत् ॥ भगीरथयशः प्रीतिविस्मृता एव ता मम । अन्यभार्याः कथं तत्स्यादिति चात्र विधिः प्रभुः ॥ सचिवा ये च मे दूरे तेभ्योऽपि मरुभूतिकः । बिक्रमैकरसेा नीतिमागे हरिशिखः स्थितः ॥ ५८ ताभ्यां न सांप्रत कृत्य गोमुखश्चतुरः पुनः । सर्वावस्थासु मे मित्र विदूरस्थो दुनोति माम् ॥ ५९ इस्युल्लपन्स तत्राशु निद्राघ्नं मधुरं मृदु । हा दुःखमिति शुश्राव नावोदीरित बचः ॥ ६० श्रुत्वा च दीप्रदीपेऽत्र सर्वतो यावदीक्षते । तावन्नार्या मुख दिव्य गवाक्षान्तर्ददर्श सः ॥ ६१ समलो व्योम्नि दृष्टोऽय चन्द्रोऽनेनेति कौतुकात् । अयोनि दर्शितं धात्रा चन्द्रमभ्यमिवालम् ॥६२ अङ्ग शेषमपश्यंश्च तस्यास्तदर्शनोत्सुकः । तद्रूपाकृष्टनयना छगित्येवमचिन्तयत् ॥ आतावित्यो युक्त्या प्राग्ब्रह्मणा सर्गविघ्नकृत् । आश्चर्य पश्य गवाशेत्युक्त्वा प्रेष्यत नन्दनम् । ६४ तत्र तेनाद्भुताकारे दृष्टोऽङ्घ्रि: केवल स्त्रियः । विपन्नश्च तदन्याङ्गदिदृक्षाव्यसनेन सः ॥ एवं ममापि धागेद मुखमात्र विपत्तये । सृष्टं स्यादिति यावच्च सेोऽत्राकलयति क्षणम् तावद्रवाक्षाद्दिन्या स्त्री प्रदर्श्य करपल्लवम् । इत एहीति साङ्गुल्या संशां तस्याकरेरात्तदा ॥ ततः संसुप्तदयितारस्वैर निर्गत्य वासकात् । तस्याः समीप' संप्राप स सोत्को दिव्य योषितः ।। ६८ अन्यासक्त प्रशंसन्ती पतिं मदनमञ्चुके । हा हतासीति सा चास्मिन्निकटोपगतेऽब्रवीत् ॥ ६९ तच्छ्रुत्वा तां प्रियां स्मृत्वा प्रज्वलद्विरहानलः । नरवाहन दत्तस्तां पृच्छति स्म स भामिनीम् ॥ ७० का व कुत्र वया दृष्टा प्रिया मदनमञ्चुका । मामुपेता किमर्थ च भवती कथ्यतामिति ॥ ७१ ततो विदूर नीवा तं प्रौढा राजसुत ं निशि । शृणु सर्व स्वमित्युक्त्वा साथ वक्तुं प्रचक्रमे ॥ ७२ नगर्या पुष्करावत्यामग्न्याराधनपिङ्गलः । अस्ति पिङ्गलगान्धारो नाम विद्याधरेश्वरः ॥ तस्य प्रभावर्ती नाम सुतो मां विद्धि कन्यकाम् | आराधितप्रसन्नाद्धि वरात्प्रातां विभावसोः ॥ ૭૪ साह तदाषादपुर द्रष्टुं वेगवतों सखीम् । अगच्छ ं न च तां तत्र प्राप क्वापि तपःस्थिताम् ॥ ७५ तन्मातुः पृथिवीदेव्या मुखान्मदनमञ्चु काम् | बुद्धवा तां त्वत्प्रियां चात्र स्थितां द्रष्टुमगामहम् ॥ ७६ अपश्यं तामनाहारकृशां पाण्डुरधूसराम् । बद्वैकवेणीं रुदतीं त्वद्गुणैकप्रलापिनीम् ॥ वृतां विद्याधराधीश कन्या वृन्दैरुदश्रुभिः । तद्दर्शनस्वच्छ्रवणप्रोद्यदुःखसुखाकुलैः ॥ तयोक्तत्वरस्वरूपा च भवदानयनेन ताम्र | आश्वास्य तत्कृपाक्रान्ता त्वद्गुणाकृष्टमानसा ।। ७९ विद्याप्रभावाद्बुद्ध्वा च संप्रति स्वामिह स्थितम् । भगास्मि तवाभ्याशं तदर्थस्वार्थसिद्धये ॥ ८० विस्मृताय प्रियं दृष्ट्वा त्वामिहान्यप्रलापिनम् । मया हा दुःखमित्युक्त्वा सा ते भार्यानुशोचिता ॥ ८१ इत्युक्तः स तथा सोको राजपुत्रो जगाद ताम् । नय मां तत्र सा यत्र नियुङ्क्ष्व च यथेच्छसि ॥ ८२ तच्छ्रुत्वा सा तमादाय खमुखस्य प्रभावती । विद्याधरी चन्द्रवत्यां गन्तु प्रववृते निशि ॥ ८३ यान्ती क्वाप्यग्निमालोक्य ज्वलन्त सा प्रदक्षिणम् । नरवाहनदत्तस्य तस्यादाय कर व्यधात् ॥ ८४ तेनाद्वाहविधिं युक्त्या प्रौढा सा निरवर्तयत् । संकल्पैकप्रधाना हि दिव्यानामखिलाः क्रियाः ॥ ८५ ततो नभस्तलात्तस्य पृथिवों वेदिकामिव । नदीर्भुजंगी सदृशीव' ल्मीकानिव पर्वतान् ॥ ७३ ७७ ७८ ८६ तानि तानि तथान्यानि कौतुकानि पदे पदे । दर्शयन्ती प्रियस्यात्र ययौ दूरं क्रमेण सा ॥ ८७ आकाशगमनश्रान्ते तृषार्तेऽस्मिन्जलार्थिनि । नरवाहनदत्ते सा व्योममार्गादवातरत् ॥ ८८ Jain Education International 279 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422