________________
Appendix - I
७१
तामार्यपुत्र मां विद्धि विदितार्था स्वविद्यया । अनुरक्तां तवानेत्रीमस्मिन्स्वे मलयाचले ॥ [ द्वितीयस्तरंगः ]
५६ ५७
६३
६५
६६ ६७
तत्र प्रियायां सुप्तायां तस्यां सुप्तविनिद्रकः । नरवाहनदत्तोऽसौ स्मृत्वा कस्मात्किलाब्रवीत् ॥ भगीरथयशः प्रीतिविस्मृता एव ता मम । अन्यभार्याः कथं तत्स्यादिति चात्र विधिः प्रभुः ॥ सचिवा ये च मे दूरे तेभ्योऽपि मरुभूतिकः । बिक्रमैकरसेा नीतिमागे हरिशिखः स्थितः ॥ ५८ ताभ्यां न सांप्रत कृत्य गोमुखश्चतुरः पुनः । सर्वावस्थासु मे मित्र विदूरस्थो दुनोति माम् ॥ ५९ इस्युल्लपन्स तत्राशु निद्राघ्नं मधुरं मृदु । हा दुःखमिति शुश्राव नावोदीरित बचः ॥ ६० श्रुत्वा च दीप्रदीपेऽत्र सर्वतो यावदीक्षते । तावन्नार्या मुख दिव्य गवाक्षान्तर्ददर्श सः ॥ ६१ समलो व्योम्नि दृष्टोऽय चन्द्रोऽनेनेति कौतुकात् । अयोनि दर्शितं धात्रा चन्द्रमभ्यमिवालम् ॥६२ अङ्ग शेषमपश्यंश्च तस्यास्तदर्शनोत्सुकः । तद्रूपाकृष्टनयना छगित्येवमचिन्तयत् ॥ आतावित्यो युक्त्या प्राग्ब्रह्मणा सर्गविघ्नकृत् । आश्चर्य पश्य गवाशेत्युक्त्वा प्रेष्यत नन्दनम् । ६४ तत्र तेनाद्भुताकारे दृष्टोऽङ्घ्रि: केवल स्त्रियः । विपन्नश्च तदन्याङ्गदिदृक्षाव्यसनेन सः ॥ एवं ममापि धागेद मुखमात्र विपत्तये । सृष्टं स्यादिति यावच्च सेोऽत्राकलयति क्षणम् तावद्रवाक्षाद्दिन्या स्त्री प्रदर्श्य करपल्लवम् । इत एहीति साङ्गुल्या संशां तस्याकरेरात्तदा ॥ ततः संसुप्तदयितारस्वैर निर्गत्य वासकात् । तस्याः समीप' संप्राप स सोत्को दिव्य योषितः ।। ६८ अन्यासक्त प्रशंसन्ती पतिं मदनमञ्चुके । हा हतासीति सा चास्मिन्निकटोपगतेऽब्रवीत् ॥ ६९ तच्छ्रुत्वा तां प्रियां स्मृत्वा प्रज्वलद्विरहानलः । नरवाहन दत्तस्तां पृच्छति स्म स भामिनीम् ॥ ७० का व कुत्र वया दृष्टा प्रिया मदनमञ्चुका । मामुपेता किमर्थ च भवती कथ्यतामिति ॥ ७१ ततो विदूर नीवा तं प्रौढा राजसुत ं निशि । शृणु सर्व स्वमित्युक्त्वा साथ वक्तुं प्रचक्रमे ॥ ७२ नगर्या पुष्करावत्यामग्न्याराधनपिङ्गलः । अस्ति पिङ्गलगान्धारो नाम विद्याधरेश्वरः ॥ तस्य प्रभावर्ती नाम सुतो मां विद्धि कन्यकाम् | आराधितप्रसन्नाद्धि वरात्प्रातां विभावसोः ॥ ૭૪ साह तदाषादपुर द्रष्टुं वेगवतों सखीम् । अगच्छ ं न च तां तत्र प्राप क्वापि तपःस्थिताम् ॥ ७५ तन्मातुः पृथिवीदेव्या मुखान्मदनमञ्चु काम् | बुद्धवा तां त्वत्प्रियां चात्र स्थितां द्रष्टुमगामहम् ॥ ७६ अपश्यं तामनाहारकृशां पाण्डुरधूसराम् । बद्वैकवेणीं रुदतीं त्वद्गुणैकप्रलापिनीम् ॥ वृतां विद्याधराधीश कन्या वृन्दैरुदश्रुभिः । तद्दर्शनस्वच्छ्रवणप्रोद्यदुःखसुखाकुलैः ॥ तयोक्तत्वरस्वरूपा च भवदानयनेन ताम्र | आश्वास्य तत्कृपाक्रान्ता त्वद्गुणाकृष्टमानसा ।। ७९ विद्याप्रभावाद्बुद्ध्वा च संप्रति स्वामिह स्थितम् । भगास्मि तवाभ्याशं तदर्थस्वार्थसिद्धये ॥ ८० विस्मृताय प्रियं दृष्ट्वा त्वामिहान्यप्रलापिनम् । मया हा दुःखमित्युक्त्वा सा ते भार्यानुशोचिता ॥ ८१ इत्युक्तः स तथा सोको राजपुत्रो जगाद ताम् । नय मां तत्र सा यत्र नियुङ्क्ष्व च यथेच्छसि ॥ ८२ तच्छ्रुत्वा सा तमादाय खमुखस्य प्रभावती । विद्याधरी चन्द्रवत्यां गन्तु प्रववृते निशि ॥ ८३ यान्ती क्वाप्यग्निमालोक्य ज्वलन्त सा प्रदक्षिणम् । नरवाहनदत्तस्य तस्यादाय कर व्यधात् ॥ ८४ तेनाद्वाहविधिं युक्त्या प्रौढा सा निरवर्तयत् । संकल्पैकप्रधाना हि दिव्यानामखिलाः क्रियाः ॥ ८५ ततो नभस्तलात्तस्य पृथिवों वेदिकामिव । नदीर्भुजंगी सदृशीव' ल्मीकानिव पर्वतान् ॥
७३
७७
७८
८६
तानि तानि तथान्यानि कौतुकानि पदे पदे । दर्शयन्ती प्रियस्यात्र ययौ दूरं क्रमेण सा ॥ ८७ आकाशगमनश्रान्ते तृषार्तेऽस्मिन्जलार्थिनि । नरवाहनदत्ते सा व्योममार्गादवातरत् ॥
८८
Jain Education International
279
For Private & Personal Use Only
www.jainelibrary.org