________________
278
Vasudevahindi : Majjhima-khanda
इह प्रयात बुद्धवा स्वा परिवारात्पिता तव । राजा मां प्राहिणोत्वां प्रत्येवमादिशति स्मच ॥२८ इयरमनावेद्य यातोऽस्युद्यानतः कथम् । अधृतिर्नस्तदायाहि मुक्तव्यासङ्गसत्वरम् ॥ २९ इति शृण्वन्धितुर्दूतात्प्रियाप्राप्ति च चिन्तयन् । नरवाहन दत्तोऽभूत्स दोलारूढमानसः ॥ ३० तावत्क्षणाच्च तौकः सार्थवाहोऽतिहर्षलः । दूरादेव नमन् नेत्य युवराजमुवाच तम् ॥ ३१
११२
अभवदतिविनम्रो वत्सराजात्मजेऽस्मिन्स किल रुचिरदेवो दृष्टमाहात्म्यहृष्टः ।। प्रादाच्च तां स्वभगिनीमुपचारवृत्तिमालम्ब्य युक्तिमनुरागहताय तस्मै । प्राग्दिरिसतां सुसदृशी स जयेन्द्रसेनां सद्य करेणुतुरगोत्तमयुग्मयुक्ताम् ।।
स च तामादाय वधू साश्ववाँ रुचिरदेवमामस्य । नरवाहनदत्तः स्वां कौशाम्बीमाययौ नगरीम् ॥ तस्यामास्त च विहरन्नन्दितवत्सेश्वरस्तया सहितः । अन्याभिश्च स सुखितो देवीभिर्मदनमन्चुकायाभिः ।।
(2. Winning of Lalitalocana)
From the Saśānkavati Lambaka
एकदा च निशि स्वप्ने नभसागत्य दिव्यया । कयापि कन्ययात्मानौं हियमाणं ददर्श सः ॥ ६ प्रबुद्धश्च महाशैलसानी सच्छायपादपे । अपश्यस्थितमारमान ता_रत्नशिलातले ॥ ७ तां च कन्यां स्वपार्श्वस्था निशि द्योतितकाननाम् । ईक्षते स्म स्मरस्येव विश्वस मोहनौषधिम् ॥८ अनयाहमिहानीत इति मत्वा च वीक्ष्य च । लज्जाविलम्बितेच्छां तां कृत्वा चालीकसुप्तकम् ।। ९ प्रलपन्निव जिज्ञासुरेव धूर्तोऽथ सोऽब्रवीत् । क्व त्वमालिङ्ग मामेहि प्रिये मदनमचुके ॥ १० तच्छ वेव तदुद्धातास्मृत्वा निर्वीडयन्त्रणम् । रूपं तद्दयितायाः सा तस्याः कृत्वालिलिङ्ग तम् ॥ ११ ततः स ने उन्मील्य दृष्ट्वा तां स्वप्रियाकृतिम । अहो विज्ञानमित्युक्त्वा कण्डे जग्राह सस्मितः॥१२ साथ हित्वा त्र रूप स्वं प्रदर्य जगाद तम् | आर्यपुत्र गृहाणेमां मामिदानी स्वयंवराम् ।।१३ एवमक्तवती तां च परिणिन्ये स कन्यकाम् । नरवाहनदत्तोऽत्र गान्धर्वविधिना तदा ॥ १४ नीत्वाथ तत्र तां रात्रिं यथावत्स तथा सह । प्रातस्तां दयितां युक्त्या कुलजिज्ञासयाभ्यधात् ।। १५
प्राप्तखड्गश्च सपन्नः स तया भार्य या सह । कान्तिमत्या कृती वामदत्तो विद्याधरोमः ॥६७ ततो रजतकूटाख्ये श्रृङ्गे मलयभूभृतः । कृतं पुरवर तेन नि जसिद्धिप्रभावत: ॥ ततो विद्याधरेन्द्रस्य तत्र कालेन कन्यका । तस्यां पन्या समुत्पन्ना नाम्ना ललितलोचना ॥ ६९ जातमागैव या विद्याधरमच्चक्रवर्तिनः । भार्या भवित्री निर्दिष्टा गगनोद्भूतया गिरा ॥ ७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org