________________
। त्याह-'जण्णसेट्ठति प्राकृतत्वाच्छेष्ठयज्ञ, श्रेष्ठवचनेन चैतद्यजन एव विष्टं कुशला वदन्ति, एष एव च कर्मप्रणो
दनोपाय इत्युक्तं भवतीति सूत्रार्थः ॥ यदीडग्गुणः श्रेष्ठयज्ञं यजते अतस्त्वमपीडग्गुण एव, तथा च तं यजमानस्य कान्युपकरणानि को वा यजनविधिरित्यभिप्रायेण त एवमाहुः
के ते जोई के व ते जोईठाणा?, का ते सूया किं च ते कारिसंग ।
एहा य ते कयरा संति भिक्खू !, कयरेण होमेण हुणासि जोइं ?॥४३॥ किं, अयमर्थः-किंरूपं 'ते' तव 'ज्योतिरिति अग्निः 'के व ते जोइठाणे'त्ति किंवा ते-तव ज्योतिःस्थानं यत्र ज्योतिनिधीयते, का श्रुवो?-घृतादिप्रक्षेपिका दयः, 'किं च'त्ति किंवा करीपः-प्रतीतः स एवाङ्गम्-अग्युद्दीपनकारणं करीपाङ्गं येनासौ सन्धुक्ष्यते, एधाश्च-समिधो यकाभिरग्निः प्रज्वाल्यते, 'ते' तव कतरा इति-काः ? 'संति' त्ति चस्य गम्यमानत्वाच्छान्तिश्च-दुरितोपशमनहेतुरध्ययनपद्धतिः कतरेति प्रक्रमो, 'भिक्षु' इति भिक्षो । कतरेण 'होमेन' हवनविधिना, समेन धावतीत्यादिवत् तृतीया, जुहोपि-आहुतिभिः प्रीणयसि, किं ?-ज्योतिः-अग्निम् , षड्जीवनिकायसमारम्भनिषेधेन यस्मदभिमतोहोमः तदुपकरणानि च पूर्व निषिद्धानीति कथं भवतो यजनसम्भवः? इति सूत्रार्थः ॥ मुनिराह
Sain Educati
o nal
For Privale & Personal use only
ainelibrary.org