Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 533
________________ CRECORRELEASE प्रविशेदपि न तत्रेयमिति भावः, भीता च मा कदाचिदसौ मम शीलभङ्गं विधास्यतीति, तस्मिन्' इति लयने । दृष्ट्वा 'एकान्ते' विविक्ते 'तकम्' इति रथनेमि, किं कृतवत्यसावित्याह-वाहाहि ति बाहुभ्यां कृत्वा 'संगोपं' परस्परबाहुगुम्फनं स्तनोपरिमर्कटबन्धमितियावत् , 'वेपमाना' शीलभङ्गभयात्कम्पमाना 'निपीदति' उपविशति, तदाश्लेषादिपरिहारार्थमिति भाव इति सूत्रचतुष्टयार्थः॥ अत्रान्तरे__ अह सोऽवि रायपुत्तो, समुद्दविजयंगओ। भीयं पवेविरं दहूं, इमं वक्कमुदाहरे ॥ ३६ ॥ रहनेमी अहं दाभदे, सुरूवे! चारुभासिणी! । ममं भयाहि सुअणु !, न ते पीला भविस्सई ॥ ३७॥ एहि ता भुंजिमो| भोगे, माणुस्संखु सुदुल्लहं । भुत्तभोगा पुणो पच्छा, जिणमग्गं चरिस्सिमो ॥ ३८॥ __अथ च 'सोऽपी'ति स पुनः 'राजपुत्रः' रथनेमिः भीतां प्रवेपितां च प्रक्रमाद्राजीमतीम् 'उदाहरे'त्ति उदाहरत्-उक्तवान् , किं तदित्याह-रथनेमिरहमिति, अनेनात्मनि रूपवत्त्वाद्यभिमानतः खप्रकाशनं तस्याभिलाषोत्पादनार्थ विश्वासविशसनहेत्वन्यशङ्कानिरासार्थ वा खनामख्यापनं, 'मम'ति मां 'भजख' सेवख सुतनु ! न 'ते' तव | पीडा' बाधा भविष्यति, सुखहेतुत्वाद्विषयसेवनस्येति भावः, यद्वा तां ससम्भ्रमां दृष्ट्वैवमाह-'म म भयाहित्ति मा । |मा भैषीः सुतनु ! यतो न 'ते' तव पीडा भविष्यति, कस्यचिदिह पीडाहेतोरभावात् , पीडया शङ्कया च भयं स्यादिसेवमुक्तम् , 'एहि' आगच्छ 'ता' इति तस्मात्तावद्वा मानुष्यं 'खुः' इति निश्चितं सुदुर्लभं, तदेतदवाप्ताविदमपि Jain Education R tional For Privale & Personal use only hinelibrary.org

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570