Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 551
________________ 545KAMACOCOM योपात्तौंद्वाचकभेदादेव धर्मस्य द्वैविध्यं, न तु वस्तुभेदात्, यद्वाचकभेदेऽपि वस्तुतो व्रतपञ्चकस्यैवात्र विवक्षितत्वात् , प्रसङ्गतश्चेहायजिनाभिधानमिति सूत्रत्रयार्थः ॥ इत्थं गौतमेनोक्ते केशिराह साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा! ॥२८॥ अचेलओ अ जो धम्मो, जो इमो संतरुत्तरो। देसिओ बद्धमाणेणं, पासेण य महामुणी ॥ २९॥ एगकजपवन्नाणं, विसेसे किं नु कारणं ?। लिंगे दुविहे मेहावी!, कहं विप्पच्चओ न ते? ॥३०॥ ___ 'साधु'त्ति साधुः-शोभना गौतम ! 'प्रज्ञा' बुद्धिः 'ते' तव, यतः 'छिन्नः' अपनीतस्त्वयेति गम्यते, मम 'संशयः' सन्देहः 'इमोति अयम्-उक्तरूपः, पठन्ति च-पण्णाए'त्ति, तत्र च साधु यथा भवत्येवं गौतम ! 'प्रज्ञया' बुद्धया छिन्नो मे संशयोऽयं, त्वयेति व्याख्येयं, विनेयापेक्षं चेत्थमभिधानं, न तु तस्य मतिश्रुतावधिज्ञानत्रयसमन्वितस्यैवंविधहै संशयसम्भव इति सर्वत्र भावनीयम् । 'अन्योऽपि' वक्ष्यमाणः संशयो मम तं मे कथय गौतम !, तद्विषयमप्यर्थे । यथावत्प्रतिपादयेति भावः । अत्र च द्वितीयं द्वारं 'लिंग'त्ति, लिङ्गयते-गम्यतेऽनेनायं व्रतीति लिङ्ग-वर्षाकल्पा-3 दिरूपो वेषः, तदधिकृत्याह-'अचेलओ' इत्यादि, प्रागू व्याख्यातमेव, नवरं 'महामुनि'त्ति महामुने!, पठन्ति च, 'महाजस'त्ति महायशाः, लिङ्गे द्विविधे-अचेलकतया विविधवस्त्रधारकतया च द्विभेद इति सूत्रत्रयार्थः ॥ एवं केशिनाऽभिहिते गौतमवचोऽभिधायकं सूत्रत्रयम् Jain EducatioHD sinelibrary.org For Privale & Personal use only ational

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570