Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 568
________________ उत्तराध्य. बृहद्वृत्तिः ॥५११॥ Jain Education | पाल्यान्येतानीति लिङ्गस्य, सत्यपि च लिङ्गे नात्मादिशत्रुजयं विनाऽसौ सुखेन पालयितुं शक्यत इति शत्रुजयस्य, तेष्वपि कषाया एवोत्कटास्तदात्मकौ च रागद्वेषाविति पाशावकर्त्तनस्य, तत्रापि लोभ एव दुरन्त इति लतोच्छेदस्य, तदुच्छेदोऽपि न कषायनिर्वापणं विनेत्यग्निनिर्वापणस्य, तद्विध्यापनमपि न मनस्यनिगृहीत इति दुष्टाश्वनिग्रहस्य | तन्निग्रहेऽपि च न सम्यक्पथपरिज्ञानं विनाऽभिमतपदप्राप्तिरिति तस्य सम्यक्पथश्च जिनप्रणीतधर्म एवेति तस्यैव | सन्मार्गत्वख्यापनाय महाश्रोतो निवारणस्य ततस्तत्रैव दाढर्योत्पादनार्थं संसारपारगमनस्य अथ यद्ययमेव सन्मार्ग| स्तत्किमित्यन्येऽपि न वदन्तीत्याशङ्कयान्येषामज्ञत्वख्यापनार्थं तमोविघटनस्य, एवमपि किमनेन सन्मार्गेण स्थान| मवाप्यमित्याशङ्कासम्भवे स्थानोपसम्पद इति गाथापदतात्पर्यार्थः ॥ पुनस्तद्वक्तव्यतामेव सूत्रकृदाह एवं तु संसए छिन्ने, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोयमं तु महायसं ॥ ८५ ॥ पंचमहव्वयं धम्मं, पडिवज्जइ भावओ । पुरिमस्स पच्छिमंमी, मग्गे तत्थ सुहावहे ॥ ८६ ॥ ' एवं 'त्ति अमुनैव प्रकारेण 'संशये' उक्तरूपे 'छिन्ने' अपनीते, उभयत्र जातावेकवचनं, शेषं स्पष्टं, नवरं 'भावतः ' इत्यभिप्रायतः, पूर्व हि चतुर्याम एव धर्मः प्रतिपत्तव्य इत्यभिप्राय आसीत्, अधुना तु पञ्चयाम इति, क्क पुनरयं पञ्चयामो | धर्म इत्याह- 'पुरिमस्स' त्ति पूर्वस्य, कोऽर्थः ? - आद्यस्य सोपस्कारत्वात्सूत्रस्य तीर्थकृतोऽभिमते 'पश्चिमे' पश्चिमतीर्थ कृ For Private & Personal Use Only. | केशिगौत मीयाध्य० २३ ॥५११॥ nelibrary.org

Loading...

Page Navigation
1 ... 566 567 568 569 570