Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
CARRORRORSCORREALISALLER
सम्बन्धितया 'मार्गे' पथि 'तो'ति प्रक्रान्ते तत्र वा तिन्दुकोद्याने 'शुभावहे' कल्याणप्रापके मार्गस्य विशेषणमिति | सूत्रद्वयार्थः ॥ सम्प्रत्यध्ययनार्थोपसंहारव्याजेन महापुरुषसङ्गमफलमाह
केसीगोअमओ निच्चं, तंमि आसि समागमे । सुयसीलसमुक्करिसो, महत्थत्थविणिच्छओ ॥ ७ ॥ 'केसिगौतमत' इति केशिगौतमावाश्रित्य 'नित्यं' सदा तत्पुर्यवस्थानापेक्षया 'तस्मिन्' प्रक्रान्तस्थाने आसीत् । | 'समागमे' मीलके, किमासीदित्याह-श्रुतं-श्रुतज्ञानं शीलं-चारित्रं तयोः समुत्कर्षः-प्रकर्षः श्रुतशीलसमुत्कर्षः, तथा 3 महार्थी-महाप्रयोजना मुक्तिसाधकत्वेन येऽर्थाः-शिक्षाव्रतादयस्तेषां विनिश्चयो-विशिष्टो निर्णयो महार्थार्थविनिश्चयः, तच्छिष्याणामिति गम्यते, 'केसित्ति सुब्लोपाकेशेर्वा गौतमतः गौतमगणधरापेक्षयाऽपकर्षवत् श्रुतादिमत्त्वादित्थमुक्तम् , इदं तु क्वचिद् दृष्टमिति व्याख्यातमिति सूत्रार्थः ॥ शेषपर्षदो यदभूत्तदाह
तोसिआ परिसा सव्वा, संमग्गं समुवडिया। 'तोषिता' परितोष नीता 'परिषत्' सदेवमनुजासुरा सभा 'सर्वा' निरवशेषा 'सन्मार्ग' मुक्तिपथमनुष्ठातुमिति गम्यते, 'समुपस्थिता' पाठान्तरतः 'पर्युपस्थिता' वा उभयत्रोद्यता, अनेन काका पर्षदफलमाह ॥ इत्थं सद्भूतगुणगसच्चरित्रवर्णनद्वारेण तयोः स्तवनमुक्त्वा प्रणिधानमाह
HSPARUSAASTUSRAHASIAS
Jain Education
a
l
For Privale & Personal use only
inelibrary.org

Page Navigation
1 ... 567 568 569 570