Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 549
________________ 'चतुर्यामः' हिंसाऽनृतस्तेयपरिग्रहोपरमात्मकतचतुष्टयरूपः 'पञ्चशिक्षितः स एव मैथुनविरमणात्मकपञ्चमव्रतसहितः । इत्थं च 'धर्म' साधुधर्मे 'द्विविधे' द्विभेदे हे 'मेधाविन् !' विशिष्टावधारणशक्त्यन्वित ! कथञ्चित् (कथं 'विप्र ) प्रत्ययः' अनाचासो न 'ते' तव?, तुल्ये हि सर्वज्ञत्वे किंकृतोऽसौ मतभेद इत्यभिप्रायः, शेषं प्रकटार्थमेवेति सूत्रद्वयार्थः ॥ एवं केशिनोक्ते__ तओ केसि बुवंतं तु, गोयमो इणमब्बवी। पन्ना समिक्खए धम्मतत्तं तत्तविणिच्छियं ॥२५॥ पुरिमा उज्जुजड्डा उ, वकजड्डा य पच्छिमा। मज्झिमा उज्जुपन्ना उ, तेण धम्मे दुहा कए ॥२६॥ पुरिमाणं दुविसुज्झो उ, चरिमाणं दुरणुपालओ। कप्पो मज्झिमगाणं तु, सुविसुज्झो सुपालओ॥२७॥ | 'ततः' तदनन्तरं केशिं ब्रुवन्तं तुः पूरणेऽवधारणे वा ततो ब्रुवन्तमेव जल्पादनुपरतमेव, अनेनादरातिशयमासन्नलब्धप्रतिभतां च गौतमस्याह । किं तदब्रवीदित्याह-'प्रज्ञा' बुद्धिः 'समीक्षते' सम्यक् पश्यति, किं तदित्याह-'धम्मतत्तंति बिन्दुरलाक्षणिकस्ततः 'धर्मतत्त्वं धर्मपरमार्थ तत्त्वानां-जीवादीनां विनिश्चयो-विशिष्टनिर्णयात्मको यस्मिंस्तत्तथा, इदमुक्तं भवति-न वाक्यश्रवणमात्रादेव वाक्यार्थनिर्णयो भवति, किन्तु प्रज्ञावशात् , ततः 'पुरिमत्ति है | 'पूर्वे' प्रथमतीर्थकृत्साधवः 'उज्जुजडे'ति ऋजवश्च प्राञ्जलतया जडाश्च तत एव दुष्प्रतिपाद्यतया ऋजुजडाः, तुरिति यस्मात् 'वक्कजडा य'त्ति, वक्राश्च वक्रबोधतया जडाश्च तत एव खकानेककुविकल्पतो विवक्षितार्थप्र Jain Educati o nal For Privale & Personal Use Only ibrary.org

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570