Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 557
________________ Jain Education हृदयस्यान्तरन्तर्हृदयं-मन इत्यर्थस्तत्र संभूता - उत्पन्ना लता 'तिष्ठति' आस्ते हे गौतम !, 'फलेइ विसभक्खीणं' ति | आर्षत्वात्फलति विषवद्भक्ष्यन्त इति विषभक्ष्याणि - पर्यन्तदारुणतया विषोपमानि फलानीति गम्यते, सा पुनः 'उद्धृता' उत्पाटिता त्वयेति गम्यते, 'कथं' केन प्रकारेण इति केशिप्रश्नः । गौतम आह- 'ताम्' इत्युक्तविशेषणां लतां 'सङ्घसो 'त्ति सर्वतः 'छित्वा' खण्डीकृत्य 'उद्धृत्य' उत्पाट्य समूलामेव समूलिकां रागद्वेषलक्षणमूलनिर्मूलनेन यथान्यायं विहरामीति प्राग्वत्, अनेन सर्वच्छेदसमूलोद्धरणं चोद्धरणप्रकार उक्तः, तत्फलमाह - मुक्तोऽस्मि 'विसभक्खणं' ति |सुब्व्यत्ययाद् विषभक्षणाद् - विषफलाभ्यवहारोपमात् क्लिष्टकर्मणः । 'लते त्यादि स्पष्टं भवः - संसारस्तस्मिन् तृष्णालोभात्मिका भवतृष्णा लतोक्ता 'भीमा' भयदा खरूपतः कार्यतश्च भीमो दुःखहेतुतया फलानामर्थात्क्लिष्टकर्म|णामुदयः - परिपाको यस्याः सा तथा, न चेह प्राग् लतामात्रस्यैव प्रश्न इति विशेषणाभिधानमयुक्तं, सविशेषणाया एव तस्याः प्रक्रान्तत्वात् प्रक्रमापेक्षत्वाच्च प्रश्नस्य, शेषमुपसंहाराभिधायीति सूत्रचतुष्टयार्थः ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ४९ ॥ गतार्थम् । 'अग्निनिर्वापणं चेव' त्ति षष्ठद्वारमङ्गीकृत्याह संपलिया घोरा, अग्गी चिट्ठह गोयमा ! । जे डहंति सरीरत्था, कहं विज्झाविया तुमे ? ॥ ५० ॥ महा| मेहपसूयाओ, गिज्झ वारि जलुत्तमं । सिंचामि सययं ते उ, सित्ता नो व डहंति मे ॥ ५१ ॥ अग्गी अ इइ ational For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570