Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 550
________________ उत्तराध्य. बृहद्वृत्तिः ॥५०२ ॥ तिपत्त्यक्षमतया वक्रजडाः 'चः' समुच्चये 'पश्चिमाः' पश्चिमतीर्थहृद्यतयः 'मध्यमास्तु' मध्यमतीर्थ कृत्सम्बन्धितपखिनः, 'ऋजुप्रज्ञाः' ऋजवश्च ते प्रकर्षेण जानन्तीति प्रज्ञाश्च सुखेनैव विवक्षितमर्थ ग्राहयितुं शक्यन्त इति ऋजुप्रज्ञाः, तेन हेतुना धर्मो द्विभेदः 'कृतः' विहितः, एककार्यप्रतिपन्नत्वेऽपीति प्रक्रमः । यदि नाम पूर्वादीनामेवंविधत्वं तथाऽपि कथमेतद् द्वैविध्यमित्याह - 'पुरिमाणं 'ति पूर्वेषां दुःखेन विशोध्यो विशोधयितुं निर्मलतां नेतुं शक्यो दुर्विशोध्यः कल्प इति संबध्यते, ते व्यतिऋजुतया गुरुभिरनुशिष्यमाणा अपि न तदनुशासनं खप्रज्ञाऽपराधाद्यथावत्प्रतिपत्तुं क्षमन्त इति तेषामसौ दुर्विशोध्य उच्यते, तुशब्द उत्तरेभ्यो विशेषं द्योतयति, 'चरमाणां' चरम तीर्थ कृत्तपखिनां दुःखेनानुपालयत इति दुरनुपालः स एव दुरनुपालकः 'कल्पः' यतिक्रियाकलापः, ते हि वक्रत्वेन कुविकल्पाकुलितचित्ततया कथञ्चिज्जानाना अपि न यथावदनुष्ठातुमीशते, मध्यमकानां तु सुखेन विशोध्यो-विशोधयितुं शक्यः सुविशोध्यः, 'सुपालउ' त्ति चशब्दस्य गम्यमानत्वात्सुपालकच, कोऽसौ ? - कल्पः इतीहापि योज्यते, ते हि ऋजुप्रज्ञा इति सम्यग् मार्गानुसारिबोधतया सुखेनैव यथावदवगच्छन्ति पालयन्ति च, अतस्ते चतुर्यामोकावपि पञ्चममपि याममुक्तहेतोर्ज्ञातुं पालयितुं च क्षमा इति तदपेक्षया पार्श्वेण चतुर्याम उक्तः, पूर्वपश्चिमाश्वोक्तनीतितो नेत्थमिति ऋषभवर्द्धमानाभ्यां पञ्चमं व्रतमुक्तम्, अयमर्थः-न यादृशाद्वाचकादेकस्य श्रोतुर्विवक्षितार्थप्रतिपत्तिस्तादृशादेवाशेषाणामपि, स्वप्रज्ञाऽपेक्षया हि कोऽपि कीदृशादेव वाचकादेकमप्यर्थं प्रतिपद्यत इति विचित्रज्ञ विनेयानुग्रहा - Jain Educationtional For Private & Personal Use Only केशिगौत मीयाध्य० २३ 1140211 inelibrary.org

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570