Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
देव प्रतिज्ञानं प्रतिज्ञा-अभ्युपगमः, प्रक्रमात्पार्थवर्द्धमानयोः, प्रतिज्ञाखरूपमाह-'मोक्खसम्भूयसाहण'त्ति मोक्षस्य सद्भूतानि च तानि तात्त्विकत्वात्साधनानि च हेतुत्वान्मोक्षसद्भूतसाधनानि, कानीत्याह-ज्ञानं च' यथावदवबोधः || 'दर्शनं च तत्वरुचिः 'चारित्रं च सर्वसावधविरतिः 'एवे' त्यवधारणे, स च लिङ्गस्य मुक्तिसद्भतसाधनता व्यवच्छिनत्ति, ज्ञानाद्येव मुक्तिसाधनं न तु लिङ्गमिति, श्रूयते हि भरतादीनां लिङ्गं विनाऽपि केवलज्ञानोत्पत्तिः, 'निश्चये' इति निश्चयनये विचार्य, व्यवहारनये तु लिङ्गस्यापि कथञ्चिन्मुक्तिसद्भतहेतुतेष्यत एव, तदयमभिप्रायः-निश्चयस्तावल्लिङ्गं प्रत्याद्रियत एव न, व्यवहार एव तूक्तहेतुभिस्तदिच्छतीति तद्भेदस्य तत्त्वतोऽकिञ्चित्करत्वान्न विदुषां विप्रत्ययहेतुता, शेष स्पष्टमिति सूत्रत्रयार्थः॥
साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ३४॥ प्राग्वत् । अत्र च तृतीयद्वारं शत्रूणां पराजय इति, एतदधिकृत्याह
अणेगाण सहस्साणं, मज्झे चिट्ठसि गोयमा !। ते अ ते अभिगच्छंति, कहं ते निजिया तुमे ? ॥ ३५॥ एगे जिए जिया पंच, पंच जिए जिया दस । दसहा उ जिणित्ता णं, सव्वसत्तू जिणामहं ॥ ३६॥ सत्तू अ इइ के वुत्ते?, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥ ३७॥ एगप्पो अजिए सत्तू, कसाया इंदियाणि य। ते जिणित्तू जहानायं, विहरामि अहं मुणी ॥ ३८ ॥
Jain Education
a
l
For Privale & Personal Use Only
nelibrary.org

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570