Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 544
________________ उत्तराध्य. बृहद्वृत्तिः ॥४९९॥ ततः 'उभयोवित्ति उभावपि केशिगौतमौ 'तत्र' इति श्रावस्त्यां 'विहरिसुत्ति वचनव्यत्ययाद् व्यहार्टी, विहृत- केशिगौत| वन्तावित्यर्थः, 'अल्लीण'त्ति 'आलीनो' मनोवाक्कायगुप्सावाश्रितौ वा, प्रक्रमात्तस्यामेव पुरि, यद्वा 'अलीनौ' पृथगव-18 मीयाध्य० स्थानेन परस्परमश्लिष्टौ 'सुसमाहितौ' सुष्ठु ज्ञानादिसमाधिमन्तौ, 'उभयोः' द्वयोः तयोरेव केशिगौतमयोः 'शिष्यसकानां' शिष्यसमूहानां 'संयतानां' संयमिनां 'तपखिना' विशिष्टतपोऽन्वितानां 'तत्रेति तस्यामेव श्रावस्तीपुरि २३ |'चिन्ते'ति वक्ष्यमाणविकल्पा गुणाः-सम्यग्दर्शनादयस्तद्वतां, 'ताइणं'ति प्राग्वत् तायिनां त्रायिणां वा, चिन्ताखरूपमाह-कीदृशः?' किंखरूपः 'वा' विकल्पे पुनरर्थे वा 'इमोत्ति अयम्-अस्मत्सम्बन्धी 'धर्मः' महाव्रतात्मकः 'अय'मिति परिदृश्यमानगणभृच्छिष्यसम्बन्धी 'धम्मो वत्ति वाशब्दो भिन्नक्रमस्ततश्चायं वा धर्मः कीदृशः?, आचरणमाचारो-वेषधारणादिको बाह्यः क्रियाकलाप इत्यर्थः, स एव सुगतिधारणाद्धर्मः, प्राप्यते हि बाह्यक्रियामात्रादपि नवमवेयकमितिकृत्वा, तस्य प्रणिधिः-व्यवस्थापनमाचारधर्मप्रणिधिः, 'इमावि'त्ति प्राकृतत्वादयं वाऽस्मसम्बन्धी 'सा वत्ति तत एव स वा द्वितीययतिसत्कः, अयं चाशयः-अस्माकममीषां च सर्वज्ञप्रणीत एव धर्मस्तकिमस्यैतत्साधनानां च भेद इति तदेतदवबोडुमिच्छामो वयमिति । उक्तामेव चिन्तामभिव्यक्तीक मेवाह-'चाउजामो यत्ति चातुर्यामः-महाव्रतचतुष्टयात्मको यो धर्मः 'देशितः' कथितः 'पार्थेन' पार्श्वनाम्ना तीर्थकृतेति : सम्बन्धः, 'जो इमोत्ति चकारस्य प्रश्लेषाद् यश्चायं पञ्च शिक्षा:-प्राणातिपातादिविरमणोपदेशात्मिकाः संजाता ॥४९९॥ malibrary.org Jain Educati o For Privale & Personal use only nal

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570