________________
पणवण १ वेय २ रागे ३ कप्प ४ चरित ५ पडिसेवणा ६ नाणे ७ । तित्थ ८ लिंग ९ सरिर १० खित्ते ११ काल १२ गइ १३ ठिइ १४ संजम १५ निगासे १६ ॥ ४२३ ॥ जोगु १७ वओग १८ कसाए १९ लेसा २० परिणाम २१ बंधणे २२ उदए २३ । कम्मोदीरण २४ उवसंपजहण २५ सण्णा २६ य आहारे २७ ॥ ४२४ ॥ भावा २८ ऽऽगरिसे २९ कालं ३० तरे ३१ समुग्धाय ३२ खित्त ३३ फुसणा य ३४ । | भावे ३५ परिणामे ३६ खलु महानियंठाण अप्पबहू ३७ ॥ ४२५ ॥
तत्र प्रज्ञापना - खरूपनिरूपणं, तच्चैषां क्षुल्लक निर्ग्रन्थीयाध्ययन एवाभिहितमिति नेहाभिधीयते १ द्वारं । 'वेद' त्ति वेदः - स्त्रीपुंनपुंसकभेदः, तत्र पुलाकः पुंनपुंसकवेदयोर्न तु स्त्रीवेदे, तत्र तथाविधलब्धेरभावात्, बकुशः स्त्रीपुंनपुंसक वेदस्तेषु त्रिष्वपि एवं प्रतिसेवनाकुशीलोऽपि कषायकुशीलः सवेदो वा स्यादवेदो वा, यदि सवेदस्त्रिष्वपि वेदेषु, अधावेद उपशान्तवेदः क्षीणवेदो वा, निर्ग्रन्थस्त्ववेद एव, सोऽप्युपशान्तवेदः क्षीणवेदो वा, एवं स्त्रात - कोऽपि न त्वसावुपशान्तवेदः, क्षीणमोहत्वात् २ । द्वारं । 'राग' इति पुलाकत्रकुशप्रतिसेवक कषायकुशीलाः सरागा एव, कपायोदयवर्त्तित्वात्तेषां निर्ग्रन्थो वीतरागः, स चोपशान्तकपायवीतरागः क्षीणकषायो वा वीतरागः, एवं
Jain Educatio ational
For Private & Personal Use Only
Hainelibrary.org