Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥४९०॥
पट्टहस्तिनमित्यर्थः, शोभत इति वर्तमाननिर्देशःप्राग्वत्, 'चूडामणिः' शिरोऽलङ्काररत्नम् । 'अर्थ' अनन्तरम् 'उच्छ्रितेन' रथनेमी६ उपरिधृतेन पाठान्तरतश्च-श्वेतोच्छ्रितेन 'चामराहि यत्ति चामराभ्यां च शोभितः 'दसारचक्केणं'ति दशाईचक्रेण 31
याध्यक यदुसमूहेन 'चतुरङ्गिण्या' हस्त्यश्वरथपदातिरूपाङ्गचतुष्टयान्वितया 'रचितया' न्यस्तया 'यथाक्रम' यथापरिपाटी ४
तूर्याणां-मृदङ्गपटहादीनां सन्निनादेनेति-संनह्यत इत्यादिषु समो भृशार्थस्यापि दर्शनादतिगाढध्वनिना 'दिव्येन | ૨૨ ६ इति प्रधानेन देवागमनस्यापि तदा सम्भवाद्देवलोकोद्भवेन वा 'गयणं फुसे त्ति आपत्वाद् 'गगनस्पृशा' अतिप्रबल
तया नमोऽङ्गणव्यापिना, सर्वत्र च लक्षणे तृतीया, 'एतादृश्या' अनन्तराभिहितरूपया 'ऋद्धया' विभूत्या 'द्युत्या' दीया, उत्तरत्र चशब्दोऽभिन्नक्रमतो द्युत्या चोत्तमयोपलक्षितः सन्निजका वनात् 'निर्यातः' निष्क्रान्तः 'वृष्णि
पुङ्गवः' यादवप्रधानो भगवानरिष्ठनेमिरितियावत् । ततश्चासौ क्रमेण गच्छन् प्राप्तो विवाहमण्डपासन्नदेशम् , 'अर्थ' है अनन्तरं स तत्र 'निर्यन्' अधिकं गच्छन् 'दिस्स'त्ति दृष्ट्वा अवलोक्य 'प्राणान् स 'प्राणिनः' मृगलावकादीन् 'भय
द्रुतान्' भयत्रस्तान् वाटैरिति-वाटकैः-वृत्तिवरण्डकादिपरिक्षिप्तप्रदेशरूपैः 'पञ्जरैश्च' बन्धनविशेषः 'सन्निरुद्धान्। 8|गाढनियन्त्रितान् , पाठान्तरतस्तु-बद्धरुद्धान् , अत एव सुदुःखितान् , तथा जीवितस्यान्तो-जीवितान्तो मरणमि-1B | ॥४९॥ त्यर्थस्तं संप्राप्तानिव संप्राप्तान् , अतिप्रत्यासन्नत्वात्तस्य, यद्वा जीवितस्यान्तः-पर्यन्तवर्ती भागस्तमुक्तहेतोः संप्राप्तान् 'मांसार्थ' मांसनिमित्तं च भक्षयितव्यान् मांसस्यैवातिगृद्धिहेतुत्वेन तद्भक्षणनिमित्तत्वादेवमुक्तं, यदिवा 'मांसेनैव
For Private & Personal Use Only
in Educatio
olinelibrary.org

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570