________________
चित्तेअविज्जुमाला विज्जुमई चित्तसेणओ भद्दा । पंथग नागजसा पुण कित्तिमई कित्तिसेणो य॥३३९॥ ३ देवी अनागदत्ता जसवइ रयणवइ जक्खहरिलो य । वच्छीअ चारुदत्तो उसभो कच्चाइणी य सिला ३४० धणदेवे वसुमित्ते सुदंसणे दारुए य निअडिल्ले । पुत्थी पिंगल पोए सागरदत्ते अ दीवसिहा ॥३४१॥ कंपिल्ले मलयवई वणराई सिंधुदत्त सोमा य । तह सिंधुसेण पज्जुन्नसेण वाणीर पइगा य ॥ ३४२ ॥ हरिएसा गोदत्ता कणेरुदत्ता कणेरुपइगा य । कुंजरकणेरुसेणा इसिवुड्डी कुरुमई देवी ॥ ३४३ ॥
इदं च सोपस्कारतया व्याख्यायते-'चित्रश्च' चित्रनामा जनकस्तदुहितरौ विद्युन्माला विद्युन्मती च, तथा चित्रसेनकः पिता भद्रा च तहुहिता, तथा पन्थकः पिता नागजसा कन्यका, पुनः समुच्चये, तथा कीर्तिमती कन्या कीर्तिसेनश्च तत्पिता । तथा देवी च नागदत्ता यशोमती रत्नवती च, पिता च सर्वासामपि यक्षहरिलः, 'चः' समुचये, वच्छी च कन्या चारुदत्तः पिता, तथा वृषभो जनकः, कात्यायनसगोत्रा तत्सुता शिला नाम । तथा धनदेवो नाम वणिक् अपरश्च वसुमित्रोऽन्यश्च सुदर्शनो दारुकश्च निकृतिमान्' मायापरः, चत्वारोऽमी कुक्कुटयुद्धव्यतिकरे मिलितास्तत्र च पुस्ती नाम कन्यका, तथा पिङ्गला नाम कन्या पोतश्च तत्पिता, सागरदत्तश्च वणिक् तद
उत्तराध्य.६४
Sain Eucal
For Privale & Personal use only
Inthinelibrary.org