Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 387
________________ उत्तराध्ययन पञ्चममध्ययनम् (५) यमरणंति" वलतां संयमान्निवर्तमानानां, दुश्चरं तपश्चरणं कर्तुं व्रतं मोक्तुञ्चाशक्नुवतां कथञ्चिदस्माकमस्मान्मुक्तिरस्तु इति ध्यायतां यन्मरणं तद्वलन्मरणं, एतच भगवतपरिणामानां मुनीनामेव स्यात् ४ । वशेन इंद्रियविषयविषयेण परवशत्वेन आर्ता दीपशिखावलोकनाकुलपतङ्गवदाकुलिता वार्तास्तेषां मरणं वशार्त्तमरणं ५। अन्तः शल्यं लज्जादिवशादनालोचितदुराचाररूपं येषां ते अन्तःशल्यास्तेषां मरणमन्तःशल्यमरणं, इदश्चातीव दुष्टं यदाहुः-"एअं ससल्लमरणं, मरिऊण महाभए दुरंतंमि ॥ सुचिरं भमंति जीवा, दीहे संसारकंतारे ॥ ६॥ "तन्भवत्ति" यस्मिन् भवे साम्प्रतं प्राणी वर्त्तते तद्भवयोग्यमेवायुर्वट्वा पुनस्तत्क्षयेण यदा म्रियते तदा तद्भवमरणं, इदश्च संख्यातवर्षायुषां नृतिरश्चामेव, न त्वसंख्यातवर्षायुषां नृतिरश्चां, देवनारकाणां च, तेषां पुनरनन्तरं तद्भवाभावात् ७ । बालानां मिथ्यादृशामविरतसम्यग्दृशां वा मरणं बालमरणम् ८ । पण्डितानां सर्वविरतिमभ्युपगतानां मरणं पण्डितमरणम् ९ । मिश्राणां बालपण्डितानां देशविरतानां मरणं मिश्रमरणम् १० । छद्मस्थानां मतिश्रुतावधिमनःपर्यायज्ञानवतां वतिनां | मरणं छद्मस्थमरणम् ११ । केवलिनां उत्पन्नकेवलानां मरणं केवलिमरणम् १२ । विहायसि आकाशे भवं वैहायसं, अयं भावः-ऊर्दू वृक्षशाखादावुद्वन्धनेन भृगुपातकूपपातशस्त्रादिभिर्वा मरणं वैहायसमरणं १३ । गृधेरुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च स्पृष्टं स्पर्शनं यत्र तद्भ्रस्पृष्ट, इदश्च मृतगजादिशवान्तः प्रविश्य गृध्राद्यैरात्मानं भक्षयतः स्यात् १४ । भक्तं भोजनं तस्य, उपलक्षणत्वात् पानादेश्च । परिज्ञा, इदं मया भूरिशो भुक्तमेतद्धेतुकञ्चायद्यमिति, UTR-1

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444