Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 439
________________ उत्तराध्ययन ।। ३८१ ।। मनुष्यकामान् देवकामोपमान् मन्यत, परं कुशाग्रजलबिन्दुसमुद्रवन्मनुष्यदेव कामानां महदेवान्तरमिति सूत्रार्थः ॥ २३॥ उक्तमेवार्थं निगमयन्नुपदेशमाह - मूलम् - कुसग्गमित्ता इमे कामा, संनिरुद्धम्मि आउए । कस्स हेउं पुरा काउं, जोगक्खेमं न संविदे ॥ २४ ॥ व्याख्या–कुशाग्रमात्रा दर्भाग्रस्थितजलवदत्यल्पा इमे कामा मनुष्यसम्बन्धिनो भोगास्तेऽपि न पल्योपमादिमाने दीर्घे आयुषि ततः 'कस्स हेडंति' प्राकृतत्वात् कं हेतुं किं कारणं 'पुराकाउंति' पुरस्कृत्याश्रित्य, अलब्धस्य लाभो योगो लब्धस्य पालनं क्षेमस्तयोः समाहारे योगक्षेमं, अप्राप्तविशिष्टधर्मावाप्तिं प्राप्तस्य च तस्य पालनं न संवित्ते न जानाति जन इति शेषः, अयं भावः - योगक्षेमाज्ञाने हि भोगाभिष्वङ्ग एव हेतुर्मनुष्य भोगाश्च धर्मप्रभावप्रभवदिव्य भोगापेक्षयाऽत्यल्पाः ततस्तत्त्यागतो भोगाभिलाषिणापि धर्म एव यतनीयमिति सूत्रार्थः ॥ २४ ॥ इत्थं दृष्टान्तपञ्चकमुक्तं, तत्र चादौ उरभ्रदृष्टान्तेन भोगानामायतावपायबहुलत्वमुक्तं, अपायबहुलमपि यन्न तुच्छं न तत्परिहर्तुं शक्यत इति काकिण्याम्रफलदृष्टान्ताभ्यां तत्तुच्छत्वं दर्शितं, तुच्छमपि लाभच्छेदात्मकव्यवहाराभिजतया आयव्ययतोलनानिपुण एव त्यक्तुं शक्त इति वणिग्व्यवहारदृष्टान्तः, आयव्ययतोलना च कथं कार्येति समुद्रात च दिव्यकामानामब्धिजलोपमत्वमुक्तं, तथा च तेषामुपार्जनं महानायोऽनुपार्जनं तु महान् व्यय इति तत्वती शि तमिति ध्येयं । इह च योगक्षेमासंवेदने कामानिवृत्त एव स्यादिति तस्य दोषमाह- सप्तमाध्य यनम् (७) UTR-1

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444