Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन
।। ३८३ ।।
लाघा, गौरत्वादिर्वा, आयुर्जीवितं, सुखं यथेष्टविषयावाप्तिः, अनुत्तरं सर्वोत्कृष्टमिदञ्च सर्वत्र योज्यते । एतानि यत्रयेषु मनुष्येषु भवन्ति प्राच्यस्य भूयः शब्दस्येह योगात् भूयः पुनस्तत्र तेषु स उपपद्यते जायते इति सूत्रार्थः ॥ २७ ॥ एवञ्च कामानिवृत्त्या यस्यात्मार्थो विनश्यति स बालः, इतरस्तु पण्डित इत्यर्थादुक्तं, सम्प्रति सूत्रत्रयेण पुनस्तयोः खरूपमुपदश्यपदेशमाह
मूलम् - बालस्स पस्स बालत्तं, अहम्मं पडिवजिआ । चिच्चा धम्मं अहम्मिट्ठे, नरएसु उववज्जइ ॥ २८ ॥ व्याख्या- बालस्य मूढस्य पश्य बालत्वं, किं तदित्याह - अधर्म विषयासक्तिरूपं प्रतिपद्याङ्गीकृत्य त्यक्त्वा धर्म भोगत्यागरूपं ‘अहम्मिट्ठेत्ति' प्राग्वन्नरके उपलक्षणत्वादन्यत्र दुर्गतौ उपपद्यते ॥ २८ ॥ तथा-मूलम् — धीरस्स पस्स धीरतं, सवधम्माणुवत्तिणो । चिच्चा अधम्मं धम्मिट्ठे, देवेसु उववज्जइ ॥ २९ ॥
व्याख्या - धिया राजते इति धीरो बुद्धिमान्, परीषहाद्यजय्यो वा धीरस्तस्य पश्य धीरत्वं सर्वधर्म क्षान्त्यादिरूपमनुवर्त्तते तदनुकूलाचरणेन खीकरोतीत्येवंशीलो यः स सर्वधर्मानुवर्त्ती तस्य सर्वधर्मानुवर्त्तिनः । धीरत्वमेवाहत्यक्त्वा अधर्म भोगाभिष्वङ्गरूपं 'धम्मिट्ठेत्ति' इष्टधर्मा देवेषूपपद्यते ॥ २९ ॥ ततः किं कर्तव्यमित्याह-मूलम् - तुलिआ णं बालभावं, अबालं चेत्र पंडिए । चइऊण बालभावं, अबालं सेव ए मुणित्ति बेमि ॥३०॥ ॥ इइ सत्तमज्झयणं सम्मत्तं ॥
सप्तमाध्य
यनम् (७)
UTR-1

Page Navigation
1 ... 439 440 441 442 443 444