Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 440
________________ ।। ३८२ ।। मूलम् - इह कामा निअट्टस्स, अत्तट्ठे अवरज्झइ । सोच्चा नेआउअं मग्गं, जं भुज्जो परिभस्सइ ॥ २५ ॥ व्याख्या - इहेति मनुष्यत्वे जिनमते वा प्राप्ते इति शेषः, कामेभ्योऽनिवृत्तोऽनुपरतः कामानिवृत्तस्तस्य आत्मनोऽर्थ आत्मार्थः स्वर्गादिरपराध्यति, अनेकार्थत्वाद्धातूनां भ्रश्यति । कुतश्चैवमित्याह श्रुत्वा उपलक्षणत्वात्प्रतिपद्य च नैयायिकं न्यायोपपन्नं मार्ग रत्नत्रयरूपं मुक्तिमार्ग, यद्यस्माद्भूयः पुनः परिभ्रश्यति, कामनिवृत्तिं प्रतिपन्नोऽपि गुरुकर्मत्वात्ततः प्रतिपतति । ये तु श्रुत्वापि न प्रतिपन्नाः, श्रवणं वा येषां नास्ति तेऽपि कामानिवृत्ता एवेति भाव इति सूत्रार्थः ॥ २५ ॥ यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाह मूलम् - इह कामनिअट्टस्स, अत्तट्ठे नावरज्झइ । पूइदेहनिरोहेणं, भवे देवित्ति मेसु ॥ २६ ॥ व्याख्या-इह कामेभ्यो निवृत्तः कामनिवृत्तस्तस्यात्मार्थः खर्गादिर्नापराध्यति न भ्रश्यति, कुतः पुनरेवं ? यतः पूतिः कुथितो देह औदारिकं शरीरं तस्य निरोधोऽभावः पूतिदेहनिरोधस्तेन कामनिवृत्तो भवेद्देवः सौधर्मादिकल्पवासी । उपलक्षणत्वात् सिद्धो वा । इत्येतन्मया श्रुतं परमगुरुभ्य इति शेष इति सूत्रार्थः ॥ २६ ॥ तदनु यदसौ प्राप्नोति तदाह मूलम् - इड्डी जुइ जसो वण्णो, आउं सुहमणुत्तरं । भुज्जो जत्थ मणुस्सेसु, तत्थ से उबवज्जइ ॥ २७ ॥ व्याख्या- ऋद्धिः खर्णादिका, द्युतिः शरीरकान्तिः, यशः पराक्रमकृता प्रसिद्धिः, वर्णो गाम्भीर्यादिगुणोत्था UTR-1

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444