Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 438
________________ ।। ३८०॥ प्रतिपत्तिरूपेण वर्तन्ते इति सविशेषाः, अत एवाऽदीनाः, कथं वयममुत्र भयिष्यामः? इति वैक्लव्यविकलाः, यान्ति देवतां देवत्वं ऐदंयुगीनजनापेक्षया चेत्थमुक्तं, विशिष्टसंहननादिसामग्रीसद्भावे तु मोक्षमपि यान्तीति | सूत्रार्थः ॥ २१॥ उक्तमर्थ निगमयन्नुपदेशमाह| मूलम्-एवमदीणवं भिक्, आगारि च विआणिआ। कहं नु जिच्चमेलिक्खं,जिच्चमाणो न संविदे ॥२२॥ व्याख्या-एवमुक्तन्यायेन लाभान्वितं अदीनवन्तं दैन्यरहितं भिक्षं मनिमगारिणं च गृहस्थं विज्ञाय विशेषण तथाविधशिक्षावशाद्देवनरगतिप्राप्तिरूपेण ज्ञात्वा कथं केन प्रकारेण नु वितर्के 'जिचंति' सूत्रत्वात् जीयेत हारयेद्विवेकी विषयकषायादिभिरिति शेषः । 'एलिक्खंति' ईदृशं देवत्वादिलक्षणं लाभ, कथं च जीयमानो हार्यमाणो न 'संविदेत्ति' सूत्रत्वान्न संवित्ते न जानीते ? अपि तु संवित्त एव, संविदानश्च यथा न जीयते तथा यतेतेति : इति सूत्रार्थः ॥ २२ ॥ समुद्रदृष्टान्तमाह-- | मूलम्-जहा कुसग्गे उदगं, समुद्देण समं मिणे। एवं माणुस्सगा कामा, देवकामाणमंतिए ॥ २३ ॥ _ व्याख्या-यथेति दृष्टान्तोपन्यासे, कुशाग्रे दर्भकोटौ यदुदकं जलं तत्समुद्रेण समुद्रजलेन समं मिनुयात् , अयं भावः-यथा कोप्यज्ञः कुशाग्रबिन्दुमादाय समुद्रजलमियदेवास्ति नाधिकमिति मानं कुर्यात्, न च कुशाग्रजलसमुद्रजलयोस्तुल्यत्वमस्ति । एवं मानुष्यकाः कामा देवकामानामन्तिके समीपे, अयमाशयो यद्यपि कश्चिच्चक्रवर्त्यादि UTR-1

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444