Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
||३७८ ॥
ग्गतिहेतुः, यदाहुः-"तिरिआउ गूढहिअओ, सढो ससल्लो समजिणइत्ति” अयं चात्र भावार्थः- यतोऽयं बालो | नरकतिर्यग्गतिहेतुभ्यां लोलताशाठ्याभ्यां देवत्वनरत्वे हारितस्ततोऽस्य द्विविधैव गतिः सम्भवतीति सूत्रार्थः ॥१७॥
पुनर्मूलच्छेदमेव स्पष्टयति| मूलम्-तओ जिए सई होइ, दुविहं दुग्गइं गए । दुल्लहा तस्स उम्मग्गा, अद्धाए सुचिरादवि ॥ १८॥
व्याख्या-ततो देवत्वनरत्वाभावात् 'जिएत्ति' सर्व वाक्यं सावधारणमिति न्यायाजित एव हारित एव 'सइंति' सदा भवति द्विविधां नरकतिर्यग्रूपां दुर्गतिं गतः, कुतश्चैवं ? यतो दुर्लभा तस्य बालस्य 'उमग्गत्ति' सूत्रत्वादुन्मजा नरकतिर्यग्गतिनिर्गमनरूपा अद्धायामनागतकाले सुचिरादपि प्रभूतायामपि बाहुल्यापेक्षया चैवमुक्तं, अन्यथा हि केचिदेकभवेनैव तत उद्धृत्य मुक्तिमपि लभन्त इति सूत्रार्थः ॥ १८ ॥ इत्थं पश्चानुपूर्व्या मूलहारिणि पूर्वमुपनयमुपदर्य मूलप्रवेशिनि तदुपदर्शनायाहर मूलम्-एवं जिअंसपेहाए, तुलिआ बालंच पंडि।मूलिअंते पवेसंति,माणुसं जोणिमिति जे ॥१९॥ | व्याख्या-एवं उक्तनीत्या जितं देवत्वनरत्वे हारितं बालं ‘सपेहाएत्ति' सम्प्रेक्ष्य सम्यगालोच्य, तथा तोलयित्वा गुणदोषवत्तया परिभाव्य बालं पण्डितं च मौलिक मूलधनं ते मूलप्रवेशकवणिक्सदृशाः प्रवेशयन्ति ये मानुषां योनिमायान्ति, बालत्वं त्यक्त्वा तदुचितपांडित्यासेवनादिति सूत्रार्थः ॥ १९॥ कथं मनुष्ययोनिमायान्तीत्याह
UTR-1

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444