Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन
सप्तमाध्ययनम् (७)
॥३७७॥
व्याख्या-मानुषत्वं मनुजजन्म भवेन्मूलमिव मूलं, खर्गापवर्गाद्युत्तरोत्तरलाभहेतुत्वात् । तथा लाभ इव लाभो ? नरजन्मापेक्षया विषयसुखादिभिर्विशिष्टत्वाद्देवगतिर्देवत्वावाप्तिर्भवेत् , मूलच्छेदेन नरगतिहान्यात्मकेन जीवानां नारकत्वं च ध्रुवं निश्चितं इदमिह पारम्पर्यम्-“यथा केपि त्रयः संसारिणो जीवा नरत्वं प्राप्ताः, तेष्वेको मार्दवार्जवादिगुणाढ्यो मध्यमारम्भपरिग्रहवान् मृत्वा मूलरक्षकवणिग्वत् कार्षापणसहस्रस्थानीयं नृत्वमेव लेभे। द्वितीयस्तु सम्यक्त्वचारित्रादिगुणान्वितः सरागसंयमाल्लब्धलाभवणिग्वल्लाभतुल्यां देवगति प्राप्तः । तृतीयस्तु हिंसामृषावादादिसावद्ययोगयुक्तश्छिन्नमूलवणिग्वत् मूलच्छेददेश्यां नरकतिर्यग्गतिमाससादेति सूत्रार्थः ॥ १६ ॥ मूलच्छेदमेव स्पष्टयतिमूलम्-दुहओ गइ बालस्स, आवई वहमूलिआ। देवत्तं माणुसत्तं च, जं जिए लोलया सढे ॥१७॥
व्याख्या-'दुहओत्ति' द्विधा गतिः प्रक्रमानरकगतितिर्यग्गतिरूपा बालस्य रागद्वेषाकुलस्य स्यादिति गम्यते । तत्र च गतस्य 'आवइत्ति' आपत् स्यात्, सा च कीदृशीत्याह-बधस्ताडनं मूलमादिर्यस्याः सा तथा, मूलशब्दाच्च छेदभेदभारारोपणादिपरिग्रहः । लभन्ते हि प्राणिनो नरकतिर्यक्षु विविधा वधाद्यापदः, किमित्येवमत आह-देवत्वं मानुषत्वं च यजितोपहारितः 'लोलया सढेत्ति' लोलता मांसादिलाम्पट्यं तद्योगाजीवोपि लोलतेत्युक्तः, शठो विश्वस्तजनवञ्चकः, इह लोलताशब्देन पञ्चेन्द्रियवधादिकमुपलक्षते, ततोऽनेन नरकहेतुरुक्तः, यदुक्तं-"महारंभयाए महापरिग्गहियाए कुणिमाहारेणं पंचिंदिअवहेणं जीवा निरयाउअंनिअच्छंतित्ति' शठ इत्यनेन तु शाठ्यमुक्तं, तच तिये
UTR-1

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444