Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
"अथ सप्तमाध्ययनम्"
।। ३६४ ।।
॥ॐव्याख्यातं षष्ठमध्ययनं साम्प्रतमौरभ्रीयाभिधं सप्तमं प्रस्तूयते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने निर्मन्यत्वं उक्तं, तच्च रसगृद्धः परिहारादेव स्यात् , तत्परिहारस्तु विपक्षे दोषदर्शनात्तच्च दृष्टान्तोपदर्शनद्वारा स्फुटं स्यादिति रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमारभ्यते, इत्यनेन सम्बन्धेनायातेऽस्मिन्नध्ययने दृष्टान्तपञ्चकं वाच्यं यदाह नियुक्तिकृत्-"उरन्भे १ कागिणि २ अंबएअ ३ ववहार ४ सायरे चेव ५ ॥ पंचेए दिटुंता, ओरम्भीअंमि || अज्झयणे ॥ १॥" तत्रादावुरभ्रदृष्टान्ताभिधायकमिदमादिसूत्रम्मूलम्-जहा एसं समुहिस्स, कोइ पोसिज एलयं । ओअणं जवसं दिजा, पोसेन्जावि सयंगणे ॥१॥
व्याख्या-यथेत्युदाहरणोपदर्शने, आदिश्यते विविधकार्येषु आज्ञाप्यते परिजनोऽस्मिन्नागत इत्यादेशः प्रापूर्ण-* कस्तं समुद्दिश्य यथाऽसौ समेष्यति समायातश्चैनं भोक्ष्यत इति विचिन्त्य कश्चित्परलोकनिरपेक्षः पोषयेत् एलकमू-* रणकं, कथमित्याह-ओदनं भुक्तशेषं तद्योग्यशेषान्नोपलक्षणञ्चैतत् यवसं मुद्माषादि च दद्यात्तदग्रतो ढौकयेत् , पोषयेत् , पुनर्वचनमस्यादरख्यापनार्थ, अपिः सम्भावने, संभाव्यते हि कोप्येवंविधो गुरुकमति, खकाङ्गणे खकीयगृहप्राङ्गणे, अन्यत्र हि नियुक्तः कदाचिन्नौदनादि ददातीति खकाङ्गण इत्युक्तमिति सूत्रार्थः ॥१॥ ततोऽसौ कीरशो भवतीत्याह
UTR-1

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444