Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उतराध्ययन
।। ३७३ ।।
षामतिभूयस्त्वं सूचयन् कार्षापणसहस्रराज्य तुल्यतामाह । इह च पूर्व 'देवकामाणमंतिएत्ति' काममात्रोपादाने - sपि 'आउं कामा य दिविआ' इत्यत्र यदायुपोप्यादानं तत्तत्रत्यायुष्कादीनामपि मनुष्य जीविताद्यपेक्षयातिभूयस्त्वख्यापनार्थमिति सूत्रार्थः ॥ १२ ॥ मनुष्यकामानामेव काकिण्याग्रफलोपमतां भावयितुमाह-
मूलम् - अणेगवासानउआ, जा सा पण्णवओ ठिई। जाणि जीअंति दुम्मेहा, ऊणे वाससयाऊ ॥ १३ ॥
व्याख्या—अनेकानि बहूनि तानि चेहासंख्येयानि वर्षाणां वत्सराणां नयुतानि संख्याविशेषा अनेकवर्षनयुतानि प्राकृतत्वात्सकारस्याकारः । नयुतानयनोपायस्त्वयं - " चतुरशीतिवर्षलक्षा पूर्वाङ्गं, तच पूर्वाङ्गेन गुणितं पूर्व । पूर्व चतुरशीतिलक्षाहतं नयुताङ्ग, नयुताङ्गमपि चतुरशीतिलक्षाहतं नयुतमिति" । का नामैवमुच्यते इत्याह- 'जा सेति' प्रज्ञापकः शिष्यान् प्रत्याह- या सा भवतामस्माकञ्च प्रतीता । 'पण्णवओत्ति' प्रकृष्टं ज्ञानं प्रज्ञा सा विद्यते यस्यासौ प्रज्ञावान्, न च क्रियाविकलं ज्ञानं प्रकृष्टं स्यादिति प्रज्ञाशब्देन क्रियाप्याक्षिप्यते, ततश्च प्रज्ञावतो ज्ञानक्रियावतः स्थितिर्देवभवायुर्लक्षणा अधिकृतत्वाद्दिव्यकामाश्च भवन्तीति शेषः, यान्यनेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च विषयभूतानि जीयन्ते हारयन्ति तद्धेतुभूतानुष्ठानाकरणेनेति भावः । दुर्मेधसो दुर्मतयो विषयविवशाः प्राणिन इति गम्यते, क्व पुनस्तानि हारयन्तीत्याह - ऊने वर्षशतायुषि प्रभूते ह्यायुषि प्रमादादेकवारं हारितान्यपि पुनरर्ज्यन्ते, अस्मिंस्तु संक्षिप्तायुष्येकदापि हारितानि हारितान्येव, श्रीवीरखामितीर्थे च प्रायो न्यूनवर्षशतायुषः
सप्तमाध्य
यनम् (७)
UTR-1

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444