Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन
सप्तमाध्य. यनम् (७)
।। ३६५ ॥
- मूलम्-तओ से पुढे परिवूढे, जायमेए महोदरे । पीणिए विउले देहे, आएसं परिकंखए ॥२॥ ___ व्याख्या-तत इत्योदनादिभोजनात्स इत्युरभ्रः, पुष्ट उपचितमांसतया पुष्टिमान् , परिवृढः समर्थः, जातमेदा |
उपचितचतुर्थधातुः, अत एव महोदरो बृहज्जठरः, प्रीणितस्तर्पितो यथाकालमुपढौकिताहारादिभिरेव, विपुले विशाले देहे सति आदेशं परिकांक्षतीव परिकांक्षति । इह च उरभ्रार्भकस्य प्राघूर्णकाभिकांक्षाभावेऽपि यदेवमुक्तं तदादेशयोग्योऽसौ जात इति जनैरुच्यमानत्वात् , तद्योग्यश्च तमिच्छतीत्युपचारादुच्यते, यथा हि वराहा कनी वरमनिच्छन्त्यपि तमिच्छतीत्युच्यते, इति सूत्रार्थः ॥ २ ॥ ततश्चमूलम्-जाव न एइ आएसे, ताव जीवइ से दुही । अह पत्तंमि आएसे, सीसं छित्तूण भुज्जइ ॥३॥ ___ व्याख्या-यावन्नेति न समायाति आदेशोऽतिथिस्तावजीवति प्राणान् धारयति स उरभ्रो दुःखी, वध्यमण्डन- | मिवास्यौदनादेरदनस्य दानं । अहेत्यादि-अथानन्तरं प्राप्ते आगते आदेशे शिरो मस्तकं छित्वा द्विधा विधाय भुज्यते तेनैव खामिना प्राघूर्णकयुक्तेनेति शेषः । अत्र चायं सम्प्रादायः
तथा हि नगरे क्वापि, गृहस्थः कोऽपि निष्क्रियः ॥ उरभ्रवालकं कञ्चित् , पुपोषाऽतिथिहेतवे ॥१॥ मुग्धत्वमञ्जुलाकारं, कृतकर्णावचूलकम् ॥ त्रपिताङ्गं हरिद्रादि-रागालङ्कृतभूधनम् ॥ २ ॥ तशातिपीनवपुषं, गृहा
UTR-1

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444