Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 416
________________ ।। ३५८ ॥ * यप्रसङ्ग इति भावः । ये तु विद्यानुशासनं त्राणायेत्याहुस्ते कीदृशा इत्याह-'विसण्णत्ति' विविधं सन्ना मनाः पापक मसु हिंसाधनुष्ठानेषु सततकारितयेति भावः, कुतश्चैवं ? यतस्ते बाला मूढाः पण्डितमात्मानं मन्यन्त इति पण्डितमानिनः, अयं भावः-ये बालाः पण्डितमानिनश्च न स्युस्ते खयं सम्यगजानानाः परं पृच्छेयुस्तदुपदेशाच दुष्कर्माणि त्यजेयर्न त तेष विषण्णा एवासीरन् ! ये तु बालाः पण्डितमानिनश्च ते तु खयमज्ञा अपि जत्वगर्वादन्यं ज्ञानिन मनाश्रयन्तो विषण्णा एव स्युरिति सूत्रार्थः ॥ ११ ॥ अथ सामान्यतयैव मुक्तिपथप्रत्यर्थिनां दोषमाह* मूलम्-जे केइ सरीरे सत्ता, वण्णे रूवे अ सबसो। मणसा कायवक्केणं, सवे ते दुक्खसंभवा ॥१२॥ व्याख्या-ये केचिच्छरीरे सक्ता लालनाभ्यअनोद्वर्तनादिभिर्बद्धाग्रहाः, तथा वर्णे गौरवत्वादिके, रूपे सौन्दर्येः | *च शब्दात स्पर्शादिषु च सक्ता आसक्ताः, 'सबसोत्ति' सूत्रत्वात्सर्वथा खयं करणकारणादिभिः सर्वैः प्रकारैः, मनसा | कथं वयं पीनदहा वर्णादिमन्तश्च भविष्याम इति ध्यानात् , कायेन रसाधुपभोगेन, वाक्येन रसायनादिप्रश्नरूपेण, सर्वे ते ज्ञानादेव मुक्तिरित्यादिवादिनो दुःखसम्भवा इहामुत्र च दुःखभाजनमिति सूत्रार्थः ॥ १२॥ यथा चैते दुःखभाजनं तथा दर्शयन्नपदेशसर्वखमाहमूलम्-आवन्ना दीहमद्धाणं, संसारंमि अणंतए । तम्हा सबदिसं पस्स, अप्पमत्तो परिवए॥ १३॥ व्याख्या-आपन्नाः प्राप्ता दीर्घमनाद्यनन्तं अध्वानमिवाध्वानं, अन्यान्यभवभ्रमणरूपं मार्ग, संसारे अनन्तके अप UTR-1

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444