Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
।।३६०॥
मूलम्-विगिंच कम्मणो हेडं, कालकंखी परिवए । मायं पिंडस्स पाणस्स, कडं लभ्रूण भक्खए॥१५॥ ___ व्याख्या-विविच्य पृथक्कृत्य कर्मणो ज्ञानावरणादेहेतुमुपादानकारणं मिथ्यात्वाविरत्यादिकं, कालमनुष्ठानावसरं कांक्षतीत्येवं शीलः कालकांक्षी परिव्रजेदिति प्राग्वत् , मात्रां यावत्या संयमनिर्वाहस्तावती ज्ञात्वेति शेषः, पिण्डस्य ओदनादेः, पानस्य च सौवीरादेः, खाद्यखाद्यानादानं तु यतेः प्रायस्तत्परिभोगासम्भवात् , कृतं खार्थमेव विहितं गृहस्थैरिति शेषः, प्रक्रमात् पिण्डादिकमेव लब्ध्वा प्राप्य भक्षयेदिति सूत्रार्थः ॥ १५ ॥ भुक्तशेषञ्च न दिनान्त- रभुक्तये स्थाप्यमित्याहमूलम्-सन्निहिं च न कुविजा, लेवमायाइ संजए । पक्खीपत्तं समादाय, निरविक्खो परिवए ॥१६॥ ___ व्याख्या-सन्निधिः समयोक्त्या दिनान्तरे भोजनार्थ भक्तादिस्थापनं तं न कुर्वीत, चः पूर्वापेक्षया समुच्चये, लेप- - मात्रया यावता पात्रं लिप्यते तावन्तमपि सन्निहिं न कुर्यादास्तां बहुं, संयतो मुनिः, किमेवं पात्राघुपकरणसन्निधिरपि न कर्तव्य इत्याह- पक्खीत्यादि' पक्षीव पक्षी, पात्रं पतद्वहादिभाजनं, उपलक्षणत्वाच्छेषोपकरणञ्च समादाय गृहीत्वा निरपेक्षो निरभिलाषः परिव्रजेदयं भावः- यथा पक्षी पक्षसञ्चयमादाय याति तथायमपि पात्रादिकमिति, ततश्च प्रत्यहमसंयमपलिमन्थभीरुत्वात् पात्रादिसन्निधिकरणम न दोषायेति सूत्रार्थः ॥ १६ ॥ कथं पुननिरपेक्षः परिव्रजेदित्याह
UTR-1

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444