Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 405
________________ उत्तराध्ययन पञ्चममध्ययनम् (५) ।। ३४७ ।। मूलम्-तानि ठाणाणि गच्छंति,सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे वा,जे संति परिनिवुआ२८॥ __ व्याख्या-तान्युक्तरूपाणि स्थानानि आवासान् गच्छन्ति शिक्षित्वाऽभ्यस्य, संयम सप्तदशभेदं, तपो द्वादशभेदं, भिक्षादा वा गृहस्था वा, प्राकृतत्वाद्वचनव्यत्ययः, ये शान्त्या उपशमेन परिनिर्वृताः विध्यातकषायानलाः शान्तिपरिनिर्वृता भवन्तीति शेष इति सूत्रार्थः ॥ २८ ॥ एतच विज्ञाय मरणपि महात्मानो यथाभूता भवन्ति तथाहमूलम्--तेसिं सुच्चा सपुजाणं, संजयाणं वुसीमओ। न संतसंति मरणंते, सीलवंता बहुस्सुआ ॥२९॥ व्याख्या-तेषामनन्तरोक्तखरूपाणां यतीनां श्रुत्वा आकर्ण्य पूर्वोक्तस्थानावाप्तिमिति शेषः । कीदृशानामित्याहसतामिन्द्रादीनां पूज्याः सत्पूज्यास्तेषां संयतानां संयमवतां 'बुसीमओत्ति' प्राग्वत् , न संत्रस्यन्ति गोद्विजन्ते मरणान्ते उपस्थिते शीलवन्तश्चारित्रवन्तो बहुश्रुता आगमवचःश्रवणशुद्धधियः, अयं भावः-अज्ञातधार्मिकगतयोऽनुपार्जितधर्माणश्च मरणादुद्विजन्ते, यथा क्वाऽस्माभिर्गन्तव्यमिति, न तु निश्चितसद्गतिगमना उपार्जितधर्माणः । यदाहुः"चरिनो निरुपक्लिष्टो, धर्मो हि मयेति निर्वृतः खस्थः । मरणादपि नोद्विजते, कृतकृत्योस्पीति धर्मात्मा ॥१॥" इति सूत्रार्थः ॥ २९ ॥ इत्थं सकाममरणखरूपमभिधाय शिष्योपदेशमाह १ वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषाम् ॥ UTR-1

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444