Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 412
________________ ।। ३५४ ।। व्याख्या – एवमनन्तरोक्तमर्थ खप्रेक्षया खबुद्ध्या 'पासेत्ति' पश्येदवधारयेत्, शमितमुपशमितं दर्शनं प्रस्तावान्मिथ्यात्वात्मकं येन स र्शमितदर्शनः सम्यग्दृष्टिः सन्, 'छिंदत्ति' सूत्रत्वात् छिंद्यात्, गृद्धिं विषयाभिष्वङ्गरूपां लेहञ्च खजनादिप्रेम, न नैव कांक्षेदभिलषेत् पूर्वसंस्तवं पूर्वपरिचयं, एकग्रामोषितोऽयमित्यादिकं, यतो न कोपि दुःखोत्पत्तौ अत्रामुत्र वा त्राणाय धर्मे विनेति सूत्रद्वयार्थः ॥ ४ ॥ एनमेवार्थे विशेषतोऽनृद्यास्यैव फलमाह मूलम् - गवासं मणिकुंडलं, पसवो दासपोरुसं । सबमेअं चइत्ता णं, कामरूवी भविस्ससि ॥ ५ ॥ व्याख्या—गावश्च अश्वाश्च गवावं, अत्र गोशब्देन धेनवो वृषभाश्च गृह्यन्ते, पशुत्वेऽप्यनयोः पृथगुपादानमत्यन्तोपयोगित्वेन प्राधान्यात्, मणयश्च चन्द्रकान्ताद्याः, कुण्डलानि च कर्णाभरणानि मणिकुण्डलं, उपलक्षणं चैतत्वर्णादीनां सर्वभूषणानाञ्च । पशवोऽजैडकादयः । दासाश्च गृहजातादयः 'पोरुसंति' सूत्रत्वात् पौरुषेयं च पुरुषसमूहो दासपौरुषेयं । सर्वमेवैतत् पूर्वोक्तं त्यक्त्वा हित्वा संयमाङ्गीकारेणेति भावः, कामरूपी भविष्यसि, इहैव विकरणाद्यनेकलब्धियोगात् परत्र च देवभवातेरिति सूत्रार्थः ॥ ६ ॥ पुनर्द्वितीयगाथोक्तसत्यखरूपमेव विशेषत आहमूलम् - थावरं जंगमं चेव, धणं धन्नं उवक्खरं । पञ्चमाणस्स कम्मेहिं, नालं दुक्खाओ मोअणे ॥ ६ ॥ १ अथवा सम्यकूप्रकारेण इतं प्राप्तं दर्शनं सम्यक्त्वं येन स समितदर्शनः एतादृशः संयमी ॥ ग. घ. UTR-1

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444