Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 411
________________ उत्तराध्ययन ।। ३५३ ।। लेमे ॥ तथाङ्गिनोऽन्येपि लभ॑न्ति तत्व - ज्ञानं विना दुःखमनेकभेदम् ॥ ३३ ॥ इति विद्याहीनत्वे दुःस्थक सूत्रार्थः ॥ १ ॥ यतश्चैवं ततो यत्कार्य तदाह मूलम् — समिक्खं पंडिए तम्हा, पास जाइपहे बहू ॥ अप्पणा सच्चमेसिज्जा, मित्तिं भूपसु कप्पए ॥ २ ॥ व्याख्या - समीक्ष्य आलोच्य पण्डितस्तत्त्वातत्त्वविवेकनिष्णः, 'तम्हत्ति' यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात्, किं समीक्ष्येत्याह- 'पासेत्यादि' - पाशा इव पाशा अत्यन्तपारवश्यहेतवो भार्यादिसम्बन्धास्त एव तीव्रमोहोदयादिहेतुतया जातीनामेकेन्द्रियादिजातीनां पन्थानस्तत्प्रापकत्वान्मार्गाः पाशजातिपथास्तान् बहून् प्रभूतान् विद्यारह - तानां विलुप्तिहेतून, किं कुर्यादित्याह - आत्मना स्वयं न तु परोपरोधादिना, सद्भ्यो जीवेभ्यो हितः सत्यः संयमस्तं एषयेद्गवेषयेत्, किञ्च मैत्रीं मित्रभावं भूतेषु पृथिव्यादिप्राणिषु कल्पयेत्कुर्यादिति सूत्रार्थः ॥ २ ॥ अपरञ्च - मूलम् - माया पिआ हुसा भाया, भज्जा पुत्ताय ओरसा। नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ॥३॥ व्याख्या - पूर्वार्ध स्पष्टं, नवरं 'हुसत्ति' खुषा पुत्रवधूः, 'ओरसत्ति' उरसि भवा औरसाः स्वयमुत्पादिता इत्यर्थः, नालं न समर्थास्ते मात्रादयो मम त्राणाय रक्षणाय लुप्यमानस्य स्वकर्मणा ज्ञानावरणीयादिनेति ॥ ३ ॥ ततश्चमूलम् - एअमहं सपेहाए, पासे समिअ दंसणे । छिंद गेहिं सिणेहं च न कंखे पुवसंथवं ॥ ४ ॥ १ आत्मनेपदस्यानित्यत्वादयं प्रयोगः समर्थनीयः ।। षष्ठमध्य यनम् (६) UTR-1

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444