________________
उत्तराध्ययन
।। ३५३ ।।
लेमे ॥ तथाङ्गिनोऽन्येपि लभ॑न्ति तत्व - ज्ञानं विना दुःखमनेकभेदम् ॥ ३३ ॥ इति विद्याहीनत्वे दुःस्थक सूत्रार्थः ॥ १ ॥ यतश्चैवं ततो यत्कार्य तदाह
मूलम् — समिक्खं पंडिए तम्हा, पास जाइपहे बहू ॥ अप्पणा सच्चमेसिज्जा, मित्तिं भूपसु कप्पए ॥ २ ॥ व्याख्या - समीक्ष्य आलोच्य पण्डितस्तत्त्वातत्त्वविवेकनिष्णः, 'तम्हत्ति' यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात्, किं समीक्ष्येत्याह- 'पासेत्यादि' - पाशा इव पाशा अत्यन्तपारवश्यहेतवो भार्यादिसम्बन्धास्त एव तीव्रमोहोदयादिहेतुतया जातीनामेकेन्द्रियादिजातीनां पन्थानस्तत्प्रापकत्वान्मार्गाः पाशजातिपथास्तान् बहून् प्रभूतान् विद्यारह - तानां विलुप्तिहेतून, किं कुर्यादित्याह - आत्मना स्वयं न तु परोपरोधादिना, सद्भ्यो जीवेभ्यो हितः सत्यः संयमस्तं एषयेद्गवेषयेत्, किञ्च मैत्रीं मित्रभावं भूतेषु पृथिव्यादिप्राणिषु कल्पयेत्कुर्यादिति सूत्रार्थः ॥ २ ॥ अपरञ्च - मूलम् - माया पिआ हुसा भाया, भज्जा पुत्ताय ओरसा। नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ॥३॥
व्याख्या - पूर्वार्ध स्पष्टं, नवरं 'हुसत्ति' खुषा पुत्रवधूः, 'ओरसत्ति' उरसि भवा औरसाः स्वयमुत्पादिता इत्यर्थः, नालं न समर्थास्ते मात्रादयो मम त्राणाय रक्षणाय लुप्यमानस्य स्वकर्मणा ज्ञानावरणीयादिनेति ॥ ३ ॥ ततश्चमूलम् - एअमहं सपेहाए, पासे समिअ दंसणे । छिंद गेहिं सिणेहं च न कंखे पुवसंथवं ॥ ४ ॥ १ आत्मनेपदस्यानित्यत्वादयं प्रयोगः समर्थनीयः ।।
षष्ठमध्य
यनम् (६)
UTR-1