________________
।। ३५२॥
वेत्यूचे सिद्धविद्यः, किमु विद्यां ददामि ते ॥ विद्याभिमंत्रितं कुम्भ-मथवेति निगद्यताम् ॥२०॥ | भोगाभोगोत्सुकः सोथ, विद्यासाधनभीरुकः ॥ विद्याधिवासितं कुम्भ-मेव देहीत्युवाच तम् ॥ २०॥ विद्यासिद्ध
स्ततस्तस्मै, सद्यस्तं कलशं ददौ ॥ दक्षः कक्षीकृते ह्यर्थे, विलम्ब नावलम्बते ॥ २१॥ दुःस्थमोपि तं कुम्भ-मादा| यामोदमेदुरः ॥ ययौ तूर्ण निजग्राम-मिति दध्यौ च चेतसि ॥२२॥ देशान्तरप्राप्तया किं, पीनयापि तया श्रिया ॥ यां विद्विषो न पश्यन्ति, या च मित्रैर्न भुज्यते ॥ २३॥ इत्यसो घटमाहात्म्यात् , कृत्वा वेश्मादि कामितं ॥ खच्छन्दं बुभुजे भोगान् , बन्धुमित्रादिभिः समम् ॥ २४ ॥ खतः सिद्धेषु भोगेषु, किमभिरिति बुद्धयः ॥ तदा | कृष्यादिकोणि, मुमुचुस्तस्य बन्धवः ॥ २५ ॥ धेन्वादीनां पशूनाञ्च, रक्षां चकुने ते जडाः॥ नश्यन्ति स्म ततस्तेपि,
तिष्ठद्वा किमरक्षितम् ? ॥ २६ ॥ सुखीकृतोऽमुना बन्धु-युक्तोऽहमिति सम्मदात् ॥ पीतासवोऽन्यदा स्कन्धा-हित. २ कुम्भो ननत सः॥ २७ ॥ उन्मत्तस्य करात्तस्य, विच्युतः कलशस्ततः ॥ सद्योऽभूच्छतधा भाग्य-हीनस्येव मनो
रथः॥ २८ ॥ कुम्भप्रभावप्रभवं, भवनं विभवादि च ॥ ततो गन्धर्वनगर-मिव तूर्ण तिरोदधे ॥ २९॥ कुम्नोत्थया प्राच्यया च, सम्पदा रहिता भृशम् ॥ ततस्तेऽन्वभवदुःखं, सर्वेऽन्यप्रेष्यतादिभिः ॥ ३० ॥ अथ प्रागेव तां विद्यामग्रहीष्यत्स चेत्स्वयम् ॥ एकस्य तस्य भङ्गेऽन्य-मकरिष्यत्तदा घटम् ॥ ३१॥ विद्यां विना तु कलशं, तादृशं कर्तुमक्षमः ॥ नित्यं दौर्गत्यसाङ्गत्या-दत्यन्तं व्याकुलोऽभवत् ॥ ३२॥ यथा प्रमादादनुपात्तविद्यः, स मन्दधीदुःखमिहेव
UTR-1