________________
।। ३५४ ।।
व्याख्या – एवमनन्तरोक्तमर्थ खप्रेक्षया खबुद्ध्या 'पासेत्ति' पश्येदवधारयेत्, शमितमुपशमितं दर्शनं प्रस्तावान्मिथ्यात्वात्मकं येन स र्शमितदर्शनः सम्यग्दृष्टिः सन्, 'छिंदत्ति' सूत्रत्वात् छिंद्यात्, गृद्धिं विषयाभिष्वङ्गरूपां लेहञ्च खजनादिप्रेम, न नैव कांक्षेदभिलषेत् पूर्वसंस्तवं पूर्वपरिचयं, एकग्रामोषितोऽयमित्यादिकं, यतो न कोपि दुःखोत्पत्तौ अत्रामुत्र वा त्राणाय धर्मे विनेति सूत्रद्वयार्थः ॥ ४ ॥ एनमेवार्थे विशेषतोऽनृद्यास्यैव फलमाह
मूलम् - गवासं मणिकुंडलं, पसवो दासपोरुसं । सबमेअं चइत्ता णं, कामरूवी भविस्ससि ॥ ५ ॥
व्याख्या—गावश्च अश्वाश्च गवावं, अत्र गोशब्देन धेनवो वृषभाश्च गृह्यन्ते, पशुत्वेऽप्यनयोः पृथगुपादानमत्यन्तोपयोगित्वेन प्राधान्यात्, मणयश्च चन्द्रकान्ताद्याः, कुण्डलानि च कर्णाभरणानि मणिकुण्डलं, उपलक्षणं चैतत्वर्णादीनां सर्वभूषणानाञ्च । पशवोऽजैडकादयः । दासाश्च गृहजातादयः 'पोरुसंति' सूत्रत्वात् पौरुषेयं च पुरुषसमूहो दासपौरुषेयं । सर्वमेवैतत् पूर्वोक्तं त्यक्त्वा हित्वा संयमाङ्गीकारेणेति भावः, कामरूपी भविष्यसि, इहैव विकरणाद्यनेकलब्धियोगात् परत्र च देवभवातेरिति सूत्रार्थः ॥ ६ ॥ पुनर्द्वितीयगाथोक्तसत्यखरूपमेव विशेषत आहमूलम् - थावरं जंगमं चेव, धणं धन्नं उवक्खरं । पञ्चमाणस्स कम्मेहिं, नालं दुक्खाओ मोअणे ॥ ६ ॥
१ अथवा सम्यकूप्रकारेण इतं प्राप्तं दर्शनं सम्यक्त्वं येन स समितदर्शनः एतादृशः संयमी ॥ ग. घ.
UTR-1