________________
उत्तराध्ययन
।। ३५५ ।।
व्याख्या - स्थावरं गृहारामादि, जङ्गमं पल्यादि, 'चेवत्ति' समुच्चये, धनधान्ये प्रतीते, उपस्करं गृहोपकरणं, एतानि कर्मभिः पच्यमानस्य जीवस्य नालं, न प्रभूणि दुःखाद्विमोचने इति सूत्रार्थः ॥ ६ ॥ ततश्चमूलम् - अज्झत्थं सबओ सवं, दिस्स पाणे पिआयए । न हणे पाणिणो पाणे, भयवेराओ उवरए ॥७॥
व्याख्या – 'अज्झत्थंति' सूत्रत्वादध्यात्मस्थं, तत्राध्यात्मं मनस्तत्र तिष्ठतीति अध्यात्मस्थं, तच्चेह प्रस्तावात्सुखादि सर्वत इष्टसंयोगानिष्टवियोगादिहेतुभ्यो जातमिति शेषः, सर्व सकलं 'दिस्सत्ति' दृष्ट्वा प्रियादिखरूपेणावधार्य, चस्य गम्यमानत्वात्प्राणांश्च जीवान् “पिआयएत्ति' प्रिय आत्मा येषां ते तथा तान्, बहुहिरण्यकोटिमूल्येनाऽभयकुमाराप्राप्तयवमात्रकालेयदृष्टान्तेन दृष्ट्वा न हन्यात् प्राणिनः प्राणान् इन्द्रियादीन् प्राणिन इत्यत्र जातित्वादेकवचनं
"
१ यथा राजगृहे सभास्थितेन श्रेणिकनृपेण प्रोक्तं, सम्प्रति नगरे किं वस्तु सुलभं स्वादु चास्ति ? क्षत्रियाः प्रोचुर्मांसं सम खादु चास्ति । तदा अभयकुमारेण चिन्तितं, एते निर्दया: । यथा पुनरप्येवं न जल्पेयुस्तथा कुर्याम् । ततो रात्रौ सर्वक्षत्रियगृहेषु पृथक् पृथक् गत्वा अभय एवमवादीत् । भो क्षत्रियाः ! राजपुत्रशरीरे महाव्याधिरुत्पन्नोस्ति ! यदि मनुष्यसत्कं कालेयमांसं टंकद्वय मितं दीयते तदा स जीवति नान्यथेति वैद्यैरुक्तमस्ति ! ततो यूयं राज्ञो ग्रासजीविनो भवद्भिरेवैतत्कार्यं कर्त्तव्यं ! । तदा एकेनोक्तं दीनारसहस्रं गृहाण परं मां मुञ्च. अन्यत्र गच्छ ! अभयेन तद्गृहीतम् । एवं रात्रौ प्रतिगृहं परिभ्रम्य तैर्दत्तानि बहूनि दीनारलक्षाण्यादाय प्रभाते नृपसभायां तद्धनं क्षत्रियेभ्यो दर्शितं प्रोक्तञ्च । अहो ! गतदिने यूयमेवमवदत ! यन्मांसं सुलभमिति, अद्य तु एतावता द्रव्येणापि तन्मांसं मया न प्राप्तं ! । ततो लज्जिता अभयेन हक्किता मांसभक्षणनियमं प्रापिताश्च । अत्रार्थे श्लोकः - "स्वमांसं दुर्लभं लोके, लक्षेणापि न लभ्यते । अल्पमूल्येन लभ्येत, पलं परशरीरजम् "
षष्ठमध्य
यनम् (६)
UTR-1