SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ॥३५६ ॥ 2 कीदृशः सन्नित्याह-भयं च भीतिरं च द्वेषो भयवैरं तस्मादुपरतो निवृत्तः सन्निति सूत्रार्थः ॥ ७ ॥ एवं हिंसाश्र वनिरोधमुक्त्वा शेषाश्रवनिरोधमाहमूलम्-आदाणं नरयं दिस्स, नायइज तणामवि । दोगुंछी अप्पणो पाए,दिण्णं भुंजिज भोअणं ॥८॥ _ व्याख्या-आदीयते इत्यादानं, धनधान्यादि, नरकहेतुत्वान्नरकं दृष्ट्वावधार्य नाददीत न गृह्णीयात्तृणमपि, आस्तां हिरण्यादि। कथं तर्हि जीवनमित्याह-'दोगुछित्ति' जुगुप्सते आत्मानं आहारं विना धर्मधुराधरणाक्षममित्येवं शीलो जुगुप्सी, न तु रसादिलम्पटः, आत्मनः सम्बन्धिनि पात्रे, न तु गृहस्थपात्रे, तत्र भुजानस्य पश्चात्कर्मादिदोषसम्भवात् , दत्तं गृहस्थैरिति शेषः, भुञ्जीत भोजनमाहारं। अनेन परिग्रहाश्रवपरिहार उक्तः, तदेवं तन्मध्यपतितस्तद्हणेन | गृह्यते इति न्यायान्मृषावादादत्तादानमैथुनलक्षणाश्रवत्रयनिरोध उक्त एवेति सूत्रार्थः ॥८॥ एवं पञ्चाश्रवविरम| णात्मके संयमे प्रोक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाहमूलम्-इहमेगे उ मण्णंति, अप्पच्चक्खाय पावगं । आयरिअं विदित्ता णं, सबदुक्खा विमुच्चइ ॥९॥ ___ व्याख्या-इह जगति एके केचित्परतीर्थिकाः, तुः पुनरर्थे, मन्यन्ते अभ्युपगच्छन्ति उपलक्षणत्वात्प्ररूपयन्ति च, यथा अप्रत्याख्याय अनिवार्य पातकं प्राणातिपातादि 'आयरिअंति' आचारिकं निजनिजाचारभवमनुष्ठानं तदेव | विदित्वा यथावदवबुध्य सर्वदुःखात् शारीरमानसाद्विमुच्यते, यदाहुः-"पञ्चविंशतितत्वज्ञो, यत्र तत्राश्रमे रतः ॥ जटी UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy