SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन षष्ठमध्ययनम् (६) ।। ३५७ ।। मुण्डी शिखी वापि, मुच्यते नात्र संशयः ॥ १॥ तेषां हि ज्ञानमेव मुक्तिकारणं, न चैतच्चारु, न हि रोगिणामप्योपधादिज्ञानादेव रोगाभावः, किन्तु तदासेवनादेव, तर्हि भावरोगेभ्यो ज्ञानावरणादिकर्मभ्योपि महाव्रतात्मकपञ्चा| जोपलक्षितक्रियां विना कथं मुक्तिरिति ? ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयैव आत्मानं स्वस्थय| न्तीति ॥९॥ तथा चाहमूलम्-भणंता अकरिता य, बंधमोक्खपइण्णिणो । वायावीरिअमेत्तेणं, समासासंति अप्पयं ॥१०॥ व्याख्या-भणन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति ब्रुवन्तः, अकुर्वन्तश्च मुक्त्युपायानुष्ठानं, बन्धमोक्षयोः प्रतिज्ञा- | भ्युपगमो बन्धमोक्षप्रतिज्ञा तद्वन्तो बन्धमोक्षप्रतिज्ञिनो, विद्यते बन्धमोक्षावित्येवंवादिन एव, न तु तथानुष्ठायिनः ।। वाग्वीर्य वचनशक्तिर्वाचालतेति यावत् , तदेवानुष्ठानशून्यं वाग्यीयमानं तेन समाश्चासयन्ति, ज्ञानादेव वयं मुक्तिं यास्याम इति खस्थयन्त्यात्मानमिति सूत्रद्वयार्थः ॥ १०॥ न च तद्वाग्वीय त्राणाय स्थादित्याह भासा,कओ विजाणुसासणं। विसण्णा पावकम्मेहि, बालापंडिअमाणिणो॥११॥ व्याख्या-न नैव चित्रा प्राकृतसंस्कृतादिका त्रायते रक्षति भाषा वचनात्मिका पापेभ्य इति शेषः, स्यादेतदचिन्त्यो हि मणिमंत्रौषधीनां प्रभाव इति मंत्राद्यात्मिका भाषा त्राणाय भाविनीत्याशङ्कापोहायाह-कुतो विद्याया विचित्रमंत्रात्मिकाया अनुशासनं शिक्षणं विद्यानुशासनं त्रायते पापान कुतोऽपि, तन्मात्रादेव मुक्तौ शेषानुष्ठानवैय UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy