________________
उत्तराध्ययन
पञ्चममध्ययनम् (५)
।। ३४७ ।।
मूलम्-तानि ठाणाणि गच्छंति,सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे वा,जे संति परिनिवुआ२८॥ __ व्याख्या-तान्युक्तरूपाणि स्थानानि आवासान् गच्छन्ति शिक्षित्वाऽभ्यस्य, संयम सप्तदशभेदं, तपो द्वादशभेदं, भिक्षादा वा गृहस्था वा, प्राकृतत्वाद्वचनव्यत्ययः, ये शान्त्या उपशमेन परिनिर्वृताः विध्यातकषायानलाः शान्तिपरिनिर्वृता भवन्तीति शेष इति सूत्रार्थः ॥ २८ ॥ एतच विज्ञाय मरणपि महात्मानो यथाभूता भवन्ति तथाहमूलम्--तेसिं सुच्चा सपुजाणं, संजयाणं वुसीमओ। न संतसंति मरणंते, सीलवंता बहुस्सुआ ॥२९॥
व्याख्या-तेषामनन्तरोक्तखरूपाणां यतीनां श्रुत्वा आकर्ण्य पूर्वोक्तस्थानावाप्तिमिति शेषः । कीदृशानामित्याहसतामिन्द्रादीनां पूज्याः सत्पूज्यास्तेषां संयतानां संयमवतां 'बुसीमओत्ति' प्राग्वत् , न संत्रस्यन्ति गोद्विजन्ते मरणान्ते उपस्थिते शीलवन्तश्चारित्रवन्तो बहुश्रुता आगमवचःश्रवणशुद्धधियः, अयं भावः-अज्ञातधार्मिकगतयोऽनुपार्जितधर्माणश्च मरणादुद्विजन्ते, यथा क्वाऽस्माभिर्गन्तव्यमिति, न तु निश्चितसद्गतिगमना उपार्जितधर्माणः । यदाहुः"चरिनो निरुपक्लिष्टो, धर्मो हि मयेति निर्वृतः खस्थः । मरणादपि नोद्विजते, कृतकृत्योस्पीति धर्मात्मा ॥१॥" इति सूत्रार्थः ॥ २९ ॥ इत्थं सकाममरणखरूपमभिधाय शिष्योपदेशमाह
१ वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषाम् ॥
UTR-1