SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ॥३४८॥ | मूलम्-तुलिआ विसेसमादाय, दयाधम्मस्स खंतिए । विप्पसीएज मेहावी, तहाभूएण अप्पणा॥३०॥ व्याख्या-तोलयित्वा परीक्ष्य, बालमरणपण्डितमरणे, विशेषञ्च बालमरणात् पण्डितमरणस्य विशिष्टत्वं, आदाय गृहीत्वा दयाधर्मस्य च, यतिधर्मस्य च, चस्य गम्यत्वात् विशेषमशेषधर्मातिशायित्वलक्षणमादाय क्षान्त्या क्षमया करणभूतया विप्रसीदेत् प्रसन्नतां भजेत् , न तु कृतद्वादशवर्षसंलेखनतथाविधतपखिवन्निजाङ्गुलिभङ्गादिना कषायमवलम्बेत मेधावी मर्यादावर्ती, तथाभूतेन यथामरणकालात्पूर्वमनाकुलमना अभूत् मरणकालेऽपि तथास्थितेनात्मनोपलक्षित इति सूत्रार्थः ॥ ३० ॥ विप्रसन्नश्च किं कुर्यादित्याहमूलम्-तओ काले अभिप्पेए, सवी तालिसमंतिए। विणइज लोमहरिसं, भेअंदेहस्स कंखए ॥३१॥ | व्याख्या-ततः कषायोपशान्तेरनन्तरकाले मरणकाले अभिप्रेते अभिरुचिते, कदा च मरणमभिप्रेतं ? यदा योगा | नोत्सर्पन्ति, 'सहीत्ति' श्रद्धावान् तादृशं मरणभयोत्थं अन्तिके समीपे गुरूणामिति शेषः विनयेदपनयेद्रोमहर्षे, हा ! अहं मरिष्यामीत्यभिप्रायोद्भवं रोमाञ्चं, किञ्च भेदं विनाशं देहस्य कांक्षेदिव कांक्षेत्त्यक्तपरिकर्मतया, न तु मरणासं||शया, हेयत्वात्तस्या इति सूत्रार्थः ॥ ३१ ॥ निगमयितुमाह मूलम्-अह कालम्मि संपत्ते,आघायाय समुस्सयं। सकाममरणं मरइ,तिहमन्नयरं मुणित्ति बेमि ॥३२॥ || UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy