________________
उत्तराध्ययन
।। ३४९ ।।
व्याख्या—अथ मरणाभिलाषानन्तरं काले मरणकाले सम्प्राप्ते “निप्फाइआ य सीसा, सउणी जह अंडयं पयतेणं ॥ बारस संवच्छरिअं, अह संलेहं तो करेइ ॥ १ ॥" इत्यादिना क्रमेण समायाते, आघाताय संलेखनादिक्रमेण विनाशाय 'समुस्सयंति' स्यादिव्यत्ययात्समुच्छ्रयस्यान्तः कार्मणदेहस्य बहिरौदारिकाङ्गस्य, किं कुर्यादित्याह - सकामस्येव साभिलाषस्येव मरणं सकाममरणं तेन म्रियते, त्रयाणां भक्तपरिज्ञेङ्गिनीपादपोपगमनानामन्यतरेण सूत्रत्वाद्विभक्तिव्यत्ययः सर्वत्र मुनिः साधुरिति सूत्रार्थः ॥ ३२ ॥ इति ब्रवीमिति प्राग्वत् ॥
even vesves Neves ve vesves vegves इति श्रीतपागच्छीय महोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चमाध्ययनं सम्पूर्णम् ॥ ५॥
उकल कल कल कल कल कल कर
पञ्चममध्य
यनम् (५)
UTR-1