________________
॥ अथ षष्ठाध्ययनम् ॥
।।३५०॥
॥ अर्हन् ॥ उक्तं पञ्चमाध्ययनमथक्षुल्लनिम्रन्थीयाख्यं षष्ठमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने मरणविभक्तिरुक्ता तत्र चान्ते पण्डितमरणमुक्तं तच्च विद्याचरणसम्पन्नानां निर्ग्रन्थानामेव स्यात् इति तत्खरूपमनेनोच्यते | इत्यनेन सम्बन्धेनायातस्यास्यादौ नियुक्तिकारोक्तं पञ्चनिर्ग्रन्थखरूपं बृहट्टीकातो ज्ञेयमत्र तु सूत्रमेवानुस्रियते, तच्चेदं
मूलम्--जावंतविजा पुरिसा, सवे ते दुक्खसंभवा। लुप्पंति बहुसो मूढा, संसारंमि अणंतए ॥१॥ । व्याख्या-यावन्तो यत्परिमाणाः, न विद्यते विद्या तत्वज्ञानात्मिका येते अविद्याः, पुरुषा नराः, सर्वे ते दुःखस्य सम्भव उत्पत्तिर्येषु ते दुःखसम्भवाः । ईदृशः सन्तो लुप्यन्ते दारिद्यान्यन्ते, बहुशोऽनेकशः मूढा हिताहितविवेकं प्रत्यसमाः , संसारे भवे अनन्तके अन्तरहिते, अनेन निम्रन्थखरूपज्ञापनार्थं तद्विपक्ष उक्त इति भावनीयं। अत्र चायं कथानकसम्प्रदायस्तथाहि| एकः कोपि पुमान् दौःस्थ्यो-पद्रुतो भाग्यवर्जितः ॥ कृष्यादि कुर्वन्नपि नो, तत्फलं किञ्चिदासदत् ॥ १॥ ततो
हाद्विनिर्गत्य, द्रविणोपार्जनाय सः ॥ उपायान् विविधान् कुर्वन् , भूयो बभ्राम भूतले ॥२॥न तु किञ्चिदपि | | प्राप, धनमुद्यमवानपि ॥ अप्युद्यतैः श्वभिरिव, न श्रीः पुण्यं विनाप्यते ॥३॥ निष्फलभ्रमणेनाथ, निर्विण्णः स
UTR-1